श्लोक 1
अथातो गर्भव्यापदं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
स्त्री चेदापन्नगर्भा परिहार्याण्यासेवेत।
ततश्च यस्या बस्तिपार्श्वश्रोणियोनिमुखेषु शूलं पुष्पदर्शनं च स्यात्।
तां मृदुसुखशिशिरास्तरणशयनस्थामीषदवनतशिरसं शीतप्रदेहपरिषेकादिभिरुपाचरेत्॥
श्लोक 3
तद्यथा।
सहस्रधौतेन सर्पिषाधोनाभेः सर्वतः प्रदिह्यात्।
मधुकसिद्धसर्पिषा सुशीतेन पिचुमाप्लाव्य योनिसमीपे स्थापयेत्।
गव्येन पयसा मधुकाम्बुना न्यग्रोधादिकषायेण वा परिषेचयेत्।
परिपीततत्स्वरसानि च तैलानि योनौ निधापयेत्।
तच्छृङ्गसिद्धस्य वा क्षीरसर्पिषः पिचुम्॥
श्लोक 4
अतिस्रवति तु रक्ते तत एवाक्षमात्रं प्राशयेत्।
केवलादेव वा क्षीरसर्पिषः।
पद्मोत्पलकुमुदकिञ्जल्कं च समधुशर्करं लेहयेत्॥
श्लोक 5
धातकीगैरिकसर्जरसाञ्जनचूर्णं वा मधुना।
न्यग्रोधादित्वक्प्रवालकल्कं वा।
शशैणहरिणरुधिरं वा सक्षौद्रं पाययेत्।
ऋद्धिविदारीजीवन्तीर्वा पयसा।
नीलोत्पलसितापक्वलोष्टचन्दनादि वा तण्डुलशालूकोदुम्बरशलाटुन्यग्रोधशृङ्गानि वा आजेन पयसा॥
श्लोक 6
कशेरुकमृणालकशृङ्गाटककाश्मर्यपरूषकद्राक्षासारिवाप्रपौण्डरीकानन्तोत्पलकदम्बबीजक्वाथेन वा शर्करामधुमधुरेण शालिचूर्णम्।
जीवनीयशृतं वा क्षीरम्।
बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन पयसा समधुशर्करेण रक्तशाल्योदनं सुशीतं भोजयेत्।
शीतवीर्यजाङ्गलरसेन वा।
रक्तपित्तक्रियाश्च शोधनवर्ज्याः प्रयुञ्जीत।
सौम्याश्च मनोऽनुकूलाः कथाः॥
श्लोक 7
अदृष्टशोणितां तु मधुकपयस्यासुरदारुभिः सिद्धं पयः पाययेत्।
ताम्रवल्यश्मन्तकशतावरीपयस्याभिर्वा।
विदार्यादिगणेन वा।
श्वदंष्ट्रास्वरसक्षीरसिद्धं वा सर्पिः।
पलाण्डुरससिद्धं वा सक्षौद्रम्॥
श्लोक 8
असम्पूर्णत्रिमासायास्तु पुष्पदर्शने गर्भः प्रायो न तिष्ठत्यसञ्जातसारत्वात्॥
श्लोक 9
आमान्वये चोर्ध्वमपि विरुद्धोपक्रमत्वात्।
तत्र रूक्षशीतानि प्रयुञ्जीत॥
श्लोक 10
तद्यथा।
प्रागुपवासं ततो दुरालभामृतोशीरपर्पटकघनचन्दनातिविषाबलाकट्वङ्गधान्याकक्वाथपानम्।
तृणधान्यशालिषष्टिकपेयामशनं च मुद्गादियूषैः।
जिते त्वामे स्निग्धशीतानि पूर्ववत्॥
श्लोक 11
आमगर्भे तु पतिते मद्यानामन्यतमं सामर्थ्यतः पाययेत्।
गर्भकोष्ठविशुध्यर्थमार्तिविस्मरणार्थं च।
अमद्यपां पाचनीयद्रव्योपहिताभिः स्नेहलवणवर्ज्याभिः सतिलाभिरुद्दालकादियवागूभिरुपाचरेद्यावन्तो मासास्तावन्त्यहानीति॥
श्लोक 12
ततः प्रीणनैर्बलानुरक्षिभिरस्नेहैराहारैरादोषधातुक्लेदशुद्धेः।
आमगर्भशेषेण हि पुनःपुनरकुशलमनुषज्येत।
तस्मात्तीक्ष्णैरनवशेषयन्नुपाचरेत्।
ततः परं स्नेहपानैर्बस्तिभिराहारैश्च दीपनीयपाचनीयजीवनीयबृंहणीयमधुरवातहरैरिति॥
श्लोक 13
यस्याः पुनर्महति जातसारे गर्भे वर्ज्यानामवर्जनात् पुष्पदर्शनं स्यादन्यद्वा योनिस्रवणम्।
तस्यास्तन्निमित्तं वायुः प्रकुपितः पित्तश्लेष्माणौ परिगृह्य गर्भस्य रसवहां नाडीं प्रतिपीड्यावतिष्ठते।
ततो नाड्यां दोषैः कुल्यायामिव तृणपत्रादिभिः प्रतिच्छन्नायां रसस्यासम्यग्वहनाद्गर्भो वृद्धिमनाप्नुवन्नुपविशत्युपशुष्यति वा॥
श्लोक 14
तत्र यस्याः कादाचित्कार्तवपरिस्रावावल्पौ च दृश्येते सततं च गर्भः प्राप्तात्परिमाणादपरिहीयमान एव स्फुरति।
न च कुक्षिर्विवर्धते।
तमुपविष्टकमित्याचक्षते।
यदा तु प्रतिमासमार्तवं प्रत्यहं वा परिस्रवणं नात्यल्पं च तथा परिहीयमाणो गर्भश्चिरात् किञ्चित् स्पन्दते।
कुक्षिश्च वृद्धोऽपि परिहीयते।
तदुपशुष्ककं नागोदरं च॥
श्लोक 15
तौ तु मातुराहारतेजसाल्पेनाप्याय्यमानौ यदा पुष्टौ स्यातां केशदशनादियुक्तौ।
तदा वर्षगणैरपि प्रमदा प्रसूयत एव॥
श्लोक 16
तत्र वातेनोपविष्टकोपशुष्ककयोर्वायुः प्रतिहन्यते सशब्दं फेनिलं विच्छिन्नं शकृदुपवेश्यते मूत्रमुपरुध्यते कटीपृष्ठहृदयेषु वेदना जृम्भा निद्रानाशोऽभीक्ष्णं प्रतिश्यायः शुष्ककासः सादः क्ष्वेडेते इव कर्णौ तुद्येते इव शङ्खौ पिपीलिकाभिरिव संसृज्यते शरीरं परिकृन्तन्निव वायुर्भ्रमति कुक्षौ तम इव प्रवेश्यते दुःखेनान्नस्य जरणमहरहः परिहानिः स्फुटितविवर्णपरुषत्वक्त्वं च भवति॥
श्लोक 17
पित्तेन ताम्रहरितमुपवेश्यते धूमकोऽम्लकश्छर्दिर्मूर्छा कुक्षिहृदयदाहः पीतरक्तगोमूत्राभनेत्रमूत्रनखत्वक्त्वं काली दुर्बला नित्यशूना च नारी भवति॥
श्लोक 18
श्लेष्मणा मधुरास्यत्वमुत्क्लेशः श्लेष्मोद्वमनं भक्तद्वेषः श्वेतहस्तपादनेत्रता कासः श्वासश्च॥
श्लोक 19
तयोर्जीवनीयबृंहणीयमधुरौषधसिद्धानां संपिषामुपयोगः।
तथा पयसां रसानामामगर्भाणां च गर्भवृद्धिकरः।
तथा सम्भोजनमेतैरेव च घृतादिभिः।
सुभिक्षाया अभीक्ष्णं यानवाहनापवर्जनबृंहणैरुपपादनम्॥
श्लोक 20
अथ विशेषेण वाते पूर्वमेव सैन्धबोपहितं क्षीरबस्तिं दत्वा शीतोदकस्नातां मृदु शाल्योदनं भोजयेत्।
ततो विदार्यादिगणसाधितेन संषिषानुवासयेत्।
निवातं च सेवेत।
पित्ते मधुकविदारीनिर्यूहसिद्धं पयः पिबेत्।
तिस्रः स्थूलकुक्कुटीर्निस्तुषमाषाढकं च क्षीरोदकेनोलूखले सङ्क्षुद्य तद्रसेन सर्पिषा च तित्तिरिकपिञ्जलान्यतररसं साघयित्वा पाययेदुपविष्टकविवर्धनार्थमुपशुष्ककबृंहणार्थं च।
अजासंपिषा क्षीरेण जीवनीयैश्च संस्कृतां यवागूं पिबेत्॥
श्लोक 21
पयस्याकाकोलीद्वयसुनिषण्णककल्केन पयसा च सर्पिर्विपाचयेत्।
तत् काल्यं क्षीरानुपानमुपयुञ्जीत।
आमगर्भरसेन चाश्नीयात्।
तानेव च तत्र भृष्टान् भक्षयेत्।
जलचरमांसानि च।
कफे त्वानूपौदकपिशितोपदंशामच्छसुरां त्रिरात्रं पञ्चरात्रं सप्तरात्रं वा पिबेत्॥
श्लोक 22
तिलमुद्गमाषलवणाबिल्वपात्रैः पञ्चभिर्घृतपात्रं संयोज्य स्वनुगुप्तं निधापयेत्।
ततः प्रातः पिण्डं बिल्वमात्रं शृतशीतच्छागदुग्धानुपानं वाश्नीयात्।
अत्रैव वा बदरचूर्णपात्रमपि निदध्यात्।
एवमवृद्धौ तीक्ष्णैर्विरेचयेदपरापातनीयैश्च पातयेत्॥
श्लोक 23
यस्याः पुनर्वातोपसृष्टस्रोतसि लीनो गर्भः प्रसुप्तो न स्पन्दते तं लीनमित्याहुः।
तत्र श्येनोत्क्रोशगोमत्स्यगोधाशिखिकुक्कुटतित्तिरीणामन्यतमस्य रसेन भूरिसर्पिष्केण माषयूषेण वा घृताढ्येन रक्तशाल्योदनं भोजयेत्।
सक्तून्वा तिलमाषबिल्वशलाटुयुक्तान् पयसा पाययेत्।
मेद्यमांसोपदंशं वा मार्द्वीकम्।
तैलेन चाभीक्ष्णमुदरवङ्क्षणोरुकटीपार्श्वपृष्ठान्यभ्यज्यात्।
मुहुर्मुहुश्चैनां हर्षयेत्।
पूर्वोक्तं चेक्षेत।
यस्याः पुनरुदावर्तविबन्धः स्यात्तां वातहरस्निग्धान्नपानैरुपाचरेत्॥
श्लोक 24
अष्टमे तु मासे मधुकसिद्धेन तैलेनानुवासयेत्।
तदसिद्धौ वीरणशालिकुशकाशेक्षुबालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधूकमधुकमृद्वीकानां च पयसार्धोदकेनोद्गृह्य रसं तेन प्रियालबिभीतकमज्जतिलकल्कयुक्तेनेषल्लवणोष्णेन निरूहयेत्।
विगतविबन्धां च स्नाताशितां सायं तेनैव तैलेनानुवासयेत्॥
श्लोक 25
उदावर्तो हि समुपेक्षितः सहसा सगर्भां गर्भिणीमतिपातयेत्॥
श्लोक 26
यस्याः पुनरतिमात्रदोषोपचयाद्यथोक्तैर्वा व्यवायादिभिरन्यैर्वा व्याधिभिः पूर्वोपचितेन वा जनन्यपत्ययोः कर्मणा बन्धनान्मुच्यते गर्भः फलमिव वृन्तात् स मुक्तबन्धनो गर्भशय्यामतिक्रम्य यकृत्प्लीहान्त्रविवरैरवस्रंसमानः कोष्ठसङ्क्षोभमापादयति।
ततः कोष्ठसङ्क्षोभाद्वायुरपानो मूढः कुक्षिबस्तिपार्श्वोदरयोनिशूलानाहविण्मूत्रसङ्गानापाद्य गर्भं च्यावयति तरुणं शोणितभावेन।
सोऽभिहितः प्राक्॥
श्लोक 27
विवृद्धे तु गर्भे स्तब्धं स्तिमितं शीतमश्मगर्भमिवोदरमाभाति।
शूलमधिकमुपजायते न च स्पन्दते गर्भो नाव्यः प्रादुर्भवन्ति न स्रवति योनिरक्षिणी चास्याः स्रंस्येते तथा भृशमरतिपरीता व्यथतेऽन्यथा चेष्टते ताम्यति भ्राम्यति रोदित्यहर्निशं न स्वपिति पूत्युच्छवासा कृच्छ्राच्छ्रवसित्यतिकष्टं प्राणिति जक्षितीत्येवंविधां स्त्रियं मृतगर्भां विद्यात्॥
श्लोक 28
तं तु गर्भं कदाचिदसम्यगपत्यपथमनेकधा प्रतिपन्नं विगुणेनेव वायुना षीडितं मोहितं च मूढ गर्भमित्याहुः।
विगुणानिलप्रतिपीडनवैचित्र्यादसङ्ख्यगतिं च॥
श्लोक 29
समासतस्तु त्रिविधा ग….र्ध्व।
तिर्यङ् न्युब्जा च।
संस्थानानि षुनरष्टौ।
तान्यत्रैवोत्तरत्र वक्ष्यन्ते॥
श्लोक 30
तेषु संवेष्वपि विपरीतेन्द्रियार्थामाक्षेपयोनि भ्रंशसंवरणमक्कलश्वासभ्रमाभिपन्नां शीतगात्रां पूत्युद्गारां च वर्जयेत्॥
श्लोक 31
न तु क्षणमप्युपेक्षेत गर्भशल्यम्।
तद्धि निरुच्छ्वासीकृत्याशु जननीं हन्यात्॥
श्लोक 32
सचेतनश्च गर्भः शस्त्रेण विदार्यमाणो विषममङ्गानि विक्षिपेत्॥
श्लोक 33
तस्मात्तत्सङ्गे सूत्यः प्रयतेरन् पूर्वोक्तानि च मन्त्रौषधानि प्रयुञ्जीत।
त्रिविधस्तु सङ्गो भवति।
शिरस्यंसे जघने वा॥
श्लोक 34
मूढगर्भस्य तु जरायुपातनसामान्यं कर्मेत्येके।
मन्त्रादिकर्माथर्ववेदविहितमित्येके।
दृष्टकर्मणा शल्यहर्त्रा शल्याहरणमित्येके॥
श्लोक 35
न त्वतः कष्टतममस्ति शस्त्रकर्म।
यतो योनियकृत्प्लीहान्त्रगर्भशयादीनां मध्ये ताननुपहिंसता स्पर्शवता शस्त्रमवचार्यमुत्कर्षणव्यावर्तमोत्कर्तच्छेदनभेदनपीडनर्जूकरणानि चैकेन पाणिना कार्याणि॥
श्लोक 36
तस्मादीश्वरमापृच्छ्य परं च यत्नमास्थाय तद्विद्यसहितस्तमुपक्रमेत्।
अक्रियायां ध्रुवं मरणम्।
उपक्रमे संशयः।
तथोदराश्मरीप्रभृतीनपि॥
श्लोक 37
अथोत्तानाया व्याभुग्नसक्थ्या वस्त्रचुम्बलोन्नमितकटिप्रदेशायाश्च धन्वनागवृन्तिकाशाल्मलीपिच्छाघृतैरभ्यज्य हस्तं योनिं च गर्भमाहरेत्॥
श्लोक 38
तत्र सक्थिभ्यामागतस्यानुलोममाञ्छनमेव।
एकसक्थिप्रपन्नस्येतरं सक्थिः प्रसार्य।
स्फिग्देशागतस्य स्फिग्देशं प्रतिषिध्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्य।
तिर्यगागतस्य परिघस्येवापरार्धमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीय।
पार्श्वापवृत्तशिरसोऽसं प्रतिपीड्योर्ध्वमुत्क्षिप्य शिरोपत्यपथमानीय।
बाहुद्वयप्रपन्नस्योर्ध्वमुत्पीड्यासौ शिरोमूअमानीय॥
श्लोक 39
यस्त्वाभुग्नमध्यः पाणिपादशिरोभिर्योनिं प्रतिपद्यते।
यश्चाभुग्न एवैकेन पादेन योनिं द्वितीयेन पायुम्।
तौ मूढौ हस्तेनाहर्तुमशक्याविति शस्त्रमवचारयेत्॥
श्लोक 40
अथ स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलिशस्त्रेण वा विदार्य शिरः कपालान्याहृत्य गर्भशङ्कुना गृहीत्वा चिबुके तालुन्युरसि कक्ष्यायां वापहरेत्।
अभिन्नशिरसं चाक्षिकूटे वा।
तथांससक्तस्यांसदेशे बाहुं छित्वा दृतेरिवाध्मातस्य वातपूर्णमुदरमवदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्।
जघनसक्तस्य जघनकपालानि दारयित्वेति॥
श्लोक 41
अपि च यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः।
तत्तच्छित्वा हरेत्सम्यग्रक्षन्नारीं च यत्नतः॥
श्लोक 42
अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक्।
एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा॥
श्लोक 43
दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः।
योनिर्मृदुर्भवेत्तेन शूलं चास्याः प्रशाम्यति॥
श्लोक 44
दीप्यकातिविषारास्नाहिङ्ग्वेलापञ्चकोलकात्।
चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत्ततः॥
श्लोक 45
कटुकातिविषापाठाशाकत्वग्धिङ्गुतैजनीः।
तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च॥
श्लोक 46
त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत्।
सायं पिबेदरिष्टं च तथा सुकृतमासवम्॥
श्लोक 47
शिरीषककुभक्वाथपिचून्योनौ च निक्षिपेत्॥
श्लोक 48
उपद्रवाश्च येऽन्ये स्युस्तान्यथास्वमुपाचरेत्।
पयो वातहरैः सिद्धं दशाहं भोजने हितम्॥
श्लोक 49
रसो दशाहं च परं लघुपथ्याल्पभोजना॥
श्लोक 50
स्नेहाभ्यङ्गपरा स्नेहान बलातैलादिकान् भजेत्।
ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च॥
श्लोक 51
अथ बलातैलमुपदेक्ष्यामः।
बलामूलकषायस्य भागाः षट् तावन्त एव पयसो यवकोलकुलत्थदशमूलकषायस्य भागो भागश्चतुर्दशस्तैलस्य तत्सर्वमैकध्यं कृत्वा श्लक्ष्णपिष्टानि चावाप्य काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णी मोदामहामेदाक्षीरशुक्लामधुकदेवदारुमञ्जिष्ठाचन्दनसारिवातगरकुष्ठशतावर्यश्वगन्धापुनर्नवाशतपुष्पावरापत्ररससरलशैलेयैलावचागरुकालानुसारीसैन्धवानि शनैर्मृद्वग्निना साधयित्वा सुभाजनेऽनुगुप्तं निदध्यादेष भगवतो धन्वन्तरेरभिमतस्तैलराजो राज्ञां राजमात्राणां सूतिकानां कृशानां शिशूनामतीतवयसां सुकुमाराणां शूलिनां महाग्रहगृहीतानां दीर्घरोगक्षपितवपुषां मर्मविद्धपतिताभिहतभग्नविश्लिष्टदेहानां दैवोपघाताभिशप्तमनोज्वरपरीतानां पाननावनाभ्यङ्गबस्तिषु प्रयोज्यः।
तेन बलपौरुषस्मृतिमतिमेधाग्निवीर्यौजांसि विवर्धन्ते पक्षाघाताक्षेपकार्दितादिविविधवातविकारगुल्महिक्काश्वासकासा निवर्तन्ते।
अहरहश्चोपयुज्यमाने षण्मासादान्त्रवृद्धिः प्रशाम्यति च वन्ध्या च पुत्रं गुणवन्तमिच्छया लभत इति।
भवन्ति चात्र॥
श्लोक 52
बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि।
जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्॥
श्लोक 53
मधुकं शाकबीजं च पयस्या सुरदारु च।
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी॥
श्लोक 54
वृक्षादनी पयस्या च लता चोत्पलसारिबा।
अनन्ता सारिवा रास्ना पद्मा च मधुयष्टिका॥
श्लोक 55
बृहतीद्वयकाश्मर्यक्षीरिशृङ्गत्वचो घृतम्।
पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका॥
श्लोक 56
शृङ्गाटकं बिसं द्राक्षा कशेरुमधुकं बला।
सप्तैतान् पयसा योगानर्धश्लोकसमापनान्॥
श्लोक 57
क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत्।
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकात्॥
श्लोक 58
मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाष्टमे।
नममे सारिवानन्तापयस्यामधुयष्टिभिः॥
श्लोक 59
योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया।
अथवा यष्टिमधुकनागरामरदारुभिः॥