अष्टाङ्गसंग्रहः/सूत्रस्थानम् चत्वारिंशोऽध्यायः

श्लोक 1

अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

अग्निः क्षारादपि गरीयानौषधशस्त्रक्षारैरसिद्धानां तद्दाहसिद्धेरपुनर्भवाच्च।
तत्राग्निकर्म त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु च प्रयुज्यते।
तत्र मशतिलकालकचर्मकीलसरुक्स्तब्धप्रम्लानाङ्गाभिष्यन्दाधिमन्थशिरोभ्रूशङ्खललाटरुजार्दितेषु सूर्यकान्तपिप्पल्यजाशकृद्गोदन्तशरशलाकाभिस्त्वग्दाहो यथास्वमभिष्यन्दादिषु तु भ्रूशङ्खललाटदेशेषु।
ग्रन्थ्यर्बुदार्शोभगन्दरगण्डमालाश्लीपदान्त्रवृद्धिदुष्टव्रणगतिनाड्यवगाढपूयालसकेषु जाम्बवौष्ठसूचीशलाकाघृतगुडमधुमधूच्छिष्टतैलवसाहेमताम्रायोरूप्यकांस्यैर्मांसदाहः।
सिरास्नायुसन्ध्यस्थिच्छदेशोणितातिप्रवृत्तिदन्तनाडीश्लिष्टवर्त्मोपपक्ष्मलगणलिङ्गनाशासम्यग्व्यधेषु जाम्ववौष्ठसूचीशलाकामधुमधूच्छिष्ट्Aगुडस्नेहैः सिरादिदाहः॥

श्लोक 3

न तु दहेद्भिन्नकोष्ठमन्तश्शोणितमनुद्धृतशल्यमनेकव्रणपीडितमुष्णे च काले तथा क्षारानर्हं च आत्ययिके तु व्याधौ कृतोष्णप्रतीकारस्य पिच्छिलमन्नमशितवतोऽग्निकर्म कुर्यात्॥

श्लोक 4

अथ दाहार्हमातुरं कृतस्वस्त्ययनमुपहृतसर्वोपकरणं प्राक्शिरःसंविष्टमाप्तावलम्बितं कृत्वा वैद्यो निर्धूमबृहत्स्थिरदीप्तखदिरबदराद्यङ्गारैरयोघटनप्रकारेण भस्त्रानिलाध्मातैर्व्यजनेन चोर्ध्वानिर्गच्छज्ज्वालतयापादितापद्यमानभासुराग्निवर्णैर्जाम्बवौष्ठादिभिर्व्याधिप्रदेशवशाद्वलयार्धचन्दस्वस्तिकाष्टापदबिन्दुरेखाप्रतिसारणविकल्पेन मुहुर्मुहुर्हितोपहिताभिर्वाग्भिरद्भिश्चातुरमाश्वासयन् दहेदा सम्यग्दाहलिङ्गोत्पत्तेः।
उच्छूनसुषिरप्रलूनदन्तनाडीसजन्तुदुष्टव्रणेषु तु स्नेहमधूच्छिष्टमधुगुडेः पूरयित्वा दहेत्।
सम्यग्दग्धे च मधुसर्पिषी दद्याच्छीतस्निग्धाश्च प्रदेहान्॥

श्लोक 5

सम्यग्दग्धलिङ्गं पुनस्सशब्दं दहनं दुर्गन्धित्वं त्वक्सङ्कोचश्च त्वग्दग्धे।
कपोतवर्णत्वमल्पशोफरुजता शुष्कसङ्कुचितव्रणता च मांसदग्धे।
कृष्णोन्नतव्रणत्वं स्थिते च रक्ते लसीकास्रुतिः सिरादग्धे।
कृष्णारुणकर्कशस्थिरव्रणता स्नाय्वादिदग्धे च।
दुर्दग्धातिदग्धयोस्तु प्रमाददग्धवल्लक्षणम्।
चिकित्सितं च॥

श्लोक 6

प्रमाददग्धं पुनश्चतुर्विधं भवति।
तुत्थं दुर्दग्धं सम्यग्दग्धमतिदग्धं च।
तत्र यद्विवर्णमूष्यतेऽतिमात्रं तत्तुथम्।
यत्रोत्तिष्ठन्ति स्फोटास्तीव्रोषादाहरुज श्चिराच्चोपशाम्यन्ति तद्दुर्दग्धम्।
पक्वतालफलवर्णं समस्थितं पूर्वलक्षणयुक्तं च सम्यग्दग्धम्।
अतिदग्धे तूग्ररुजता धूमायनं मांसावलम्बनं सिरादिव्यापदो गम्भीरव्रणता ज्वरदाहतृण्मूर्छाच्छर्दयः शोणितातिप्रवृत्तिस्तन्निमित्ताश्चोपदवाः कृच्छ्रेण रोहणं रूढे च विवर्णतेति।
स्नेहदाहस्तु कष्टतरो भवति।
स हि स्नेहस्य सूक्ष्ममार्गानुसारित्वाद् दूरमनुप्रविशतीति।
भवति चात्र॥

श्लोक 7

तुत्थस्यग्निप्रतपनं कार्यमुष्णं च भेषजम्।
स्त्याने रक्ते हिमैर्नोष्मा निष्क्रामति यतो बहिः॥

श्लोक 8

वेदना वर्धते तेन रुधिरं च विदह्यते।
उष्णं निष्क्रामयत् कुर्यादूष्माणं मन्दतां रुजः॥

श्लोक 9

शीतामुष्णां च दुर्दग्धे क्रियां कृत्वा ततः पुनः।
घृतालेपनसेकांस्तु शीतानेवावचारयेत्॥

श्लोक 10

सम्यग्दग्धे तवक्षीरीप्लक्षचन्दनगैरिकैः।
सामृतैः सघृतैर्लेपः कल्कैर्वानूपमांसजैः॥

श्लोक 11

शान्तोष्मणि परं कुर्यात् पित्तविद्रधिसाधनम्।
अतिदग्धे विशीर्णानिमांसान्युद् वृत्य शीतलाम्॥

श्लोक 12

क्रियां कुर्यात्ततः पश्चाच्छालितण्डुलकण्डनैः।
तिन्दुकीत्वक्कषायैर्वा पिष्टैः साज्यैः प्रेलेपयेत्॥

श्लोक 13

गुडूच्याश्छादयेत् पत्रैरथवौपोदकैर्व्रणम्।
भेषजं चास्य कुर्वीत सर्वं पित्तविसर्पवत्॥

श्लोक 14

स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत्।
शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्।
अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत्॥

श्लोक 15

इति तन्त्रस्य हृदयं सूत्रस्थानं समाप्यते।
अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः॥
इति चत्वारिंशोऽध्यायः॥