श्लोक 1
स्निग्धा स-वर्णा ग्रथिता नी-रुजा मुद्ग-संनिभा ।
पिटिका कफ-वाताभ्यां बालानाम् अजगल्लिका ॥ १ ॥
श्लोक 2
स्निग्धाः स-वर्णा ग्रथिता पिटिकाः कफ-वाताभ्यां नी-रुजा मुद्ग-संमिता नी-रुजा मुद्ग-संनिभाः यव-प्रख्या यव-प्रख्या ताभ्यां मांसाश्रिता घना ।
अ-वक्त्रा चालजी वृत्ता स्तोक-पूया घनोन्नता ॥ २ ॥
श्लोक 3
यव-प्रख्या यवाकारा अ-वक्त्राश् चालजी-वृत्ताः स्तोक-पूया घनोन्नताः ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नताः ।
कर्णस्योर्ध्वं समन्ताद् वा पिटिका कठिनोग्र-रुक् ॥ ३ ॥
श्लोक 4
कच्छपी कच्छपोन्नता शालूकाभा पनसिका शोफस् त्व् अल्प-रुजः स्थिरः ।
हनु-संधि-समुद्भूतस् ताभ्यां पाषाण-गर्दभः ॥ ४ ॥
श्लोक 5
शाल्मली-कण्टकाकाराः पिटिकाः स-रुजो घनाः ।
मेदो-गर्भा मुखे यूनां ताभ्यां च मुख-दूषिकाः ॥ ५ ॥
श्लोक 6
ताभ्यां च मुख-दूषकाः ते पद्म-कण्टका ज्ञेया यैः पद्मम् इव कण्टकैः ।
चीयते नी-रुजैः श्वेतैः शरीरं कफ-वात-जैः ॥ ६ ॥
श्लोक 7
पित्तेन पिटिका वृत्ता पक्वोदुम्बर-संनिभा ।
महा-दाह-ज्वर-करी विवृता विवृतानना ॥ ७ ॥
श्लोक 8
गात्रेष्व् अन्तश् च वक्त्रस्य दाह-ज्वर-रुजान्विताः ।
मसूर-मात्रास् तद्-वर्णास् तत्-संज्ञाः पिटिका घनाः ॥ ८ ॥
श्लोक 9
ततः कष्ट-तराः स्फोटा विस्फोटाख्या महा-रुजाः ।
या पद्म-कर्णिकाकारा पिटिका पिटिकाचिता ॥ ९ ॥
श्लोक 10
सा विद्धा वात-पित्ताभ्यां ताभ्याम् एव च गर्दभी ।
मण्डला विपुलोत्सन्ना स-राग-पिटिकाचिता ॥ १० ॥
श्लोक 11
कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् ।
पित्ताद् भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥ ११ ॥
श्लोक 12
सूक्ष्मा जालोपमा घनाः तादृशी महती त्व् एका गन्ध-नामेति कीर्तिता ।
घर्म-स्वेद-परीते ऽङ्गे पिटिकाः स-रुजो घनाः ॥ १२ ॥
श्लोक 13
राजीका-वर्ण-संस्थान-प्रमाणा राजिकाह्वयाः ।
दोषैः पित्तोल्बणैर् मन्दैर् विसर्पति विसर्प-वत् ॥ १३ ॥
श्लोक 14
शोफो ऽ-पाकस् तनुस् ताम्रो ज्वर-कृज् जाल-गर्दभः ।
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांस-दारणाः ॥ १४ ॥
श्लोक 15
ज्वरिणो मांस-दारुणाः ज्वरिणो मांस-दारिणः कक्षा-भागेषु जायन्ते ये ऽग्न्य्-आभाः साग्नि-रोहिणी ।
पञ्चाहात् सप्त-रात्राद् वा पक्षाद् वा हन्ति जीवितम् ॥ १५ ॥
श्लोक 16
त्रि-लिङ्गा पिटिका वृत्ता जत्रूर्ध्वम् इरिवेल्लिका ।
विदारी-कन्द-कठिना विदारी कक्ष-वङ्क्षणे ॥ १६ ॥
श्लोक 17
मेदो-ऽनिल-कफैर् ग्रन्थिः स्नायु-मांस-सिराश्रयैः ।
भिन्नो वसाज्य-मध्व्-आभं स्रवेत् तत्रोल्बणो ऽनिलः ॥ १७ ॥
श्लोक 18
मांसं विशोष्य ग्रथितां शर्करां उपपादयेत् ।
दुर्-गन्धं रुधिरं क्लिन्नं नाना-वर्णं ततो मलाः ॥ १८ ॥
श्लोक 19
दुर्-गन्धि रुधिरं क्लिन्नं तां स्रावयन्ति निचितां विद्यात् तच् छर्करार्बुदम् ।
पाणि-पाद-तले संधौ जत्रूर्ध्वं वोपचीयते ॥ १९ ॥
श्लोक 20
तां स्रावयन्ति निचिता जत्रूर्ध्वं चोपचीयते वल्मीक-वच् छनैर् ग्रन्थिस् तद्-वद् बह्व्-अणुभिर् मुखैः ।
रुग्-दाह-कण्डू-क्लेदाढ्यैर् वल्मीको ऽसौ समस्त-जः ॥ २० ॥
श्लोक 21
रुग्-दाह-कण्डू-क्लेदाढ्यो शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।
ग्रन्थिः कील-वद् उत्सन्नो जायते कदरं तु तत् ॥ २१ ॥
श्लोक 22
वेग-संधारणाद् वायुर् अपानो ऽपान-संश्रयम् ।
अणू-करोति बाह्यान्तर्-मार्गम् अस्य ततः शकृत् ॥ २२ ॥
श्लोक 23
अपानो ऽपान-संश्रयः कृच्छ्रान् निर्गच्छति व्याधिर् अयं रुद्ध-गुदो मतः ।
कुर्यात् पित्तानिलं पाकं नख-मांसे स-रुग्-ज्वरम् ॥ २३ ॥
श्लोक 24
चिप्यम् अ-क्षत-रोगं च विद्याद् उप-नखं च तम् ।
कृष्णो ऽभिघाताद् रूक्षश् च खरश् च कु-नखो नखः ॥ २४ ॥
श्लोक 25
विद्याद् उप-नखं च तत् दुष्ट-कर्दम-संस्पर्शात् कण्डू-क्लेदान्वितान्तराः ।
अङ्गुल्यो ऽलसम् इत्य् आहुस् तिलाभांस् तिल-कालकान् ॥ २५ ॥
श्लोक 26
कृष्णान् अ-वेदनांस् त्वक्-स्थान् माषांस् तान् एव चोन्नतान् ।
मषेभ्यस् तून्नत-तरांश् चर्म-कीलान् सितासितान् ॥ २६ ॥
श्लोक 27
तथा-विधो जतु-मणिः सह-जो लोहितस् तु सः ।
कृष्णं सितं वा सह-जं मण्डलं लाञ्छनं समम् ॥ २७ ॥
श्लोक 28
स-रुजो लोहितस् तु सः शोक-क्रोधादि-कुपिताद् वात-पित्तान् मुखे तनु ।
श्यामलं मण्डलं व्यङ्गं वक्त्राद् अन्य-त्र नीलिका ॥ २८ ॥
श्लोक 29
परुषं परुष-स्पर्शं व्यङ्गं श्यावं च मारुतात् ।
पित्तात् ताम्रान्तम् आ-नीलं श्वेतान्तं कण्डु-मत् कफात् ॥ २९ ॥
श्लोक 30
पित्तात् ताम्रं तथा नीलं श्वेताभं कण्डु-मत् कफात् रक्ताद् रक्तान्तम् आ-ताम्रं सौषं चिमिचिमायते ।
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥ ३० ॥
श्लोक 31
मुखं चिमिचिमायते ततस् त्वग् जायते पाण्दुः क्रमेण च वि-चेतना ।
अल्प-कण्डूर् अ-विक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥ ३१ ॥
श्लोक 32
अल्प-कण्डूर् अप-क्लेदा अ-सम्यग्-वमनोदीर्ण-पित्त-श्लेष्मान्न-निग्रहैः ।
मण्डलान्य् अति-कण्डूनि राग-वन्ति बहूनि च ॥ ३२ ॥
श्लोक 33
उत्कोठः सो ऽनुबद्धस् तु कोठ इत्य् अभिधीयते ।
प्रोक्ताः षट्-त्रिंशद् इत्य् एते क्षुद्र-रोगा विभाग-शः ॥ ३३ ॥
श्लोक
उत्कोठः सो ऽनुबन्धस् तु यान् अ-विज्ञाय मुह्येत चिकित्सायां चिकित्सकः ॥ ३३+(१)अब् ॥