श्लोक 1
सर्व-त्र सर्वाङ्ग-सरे दोष-जे श्वयथौ पुरा ।
सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत् ॥ १ ॥
श्लोक 2
नागरातिविषा-दारु-विडङ्गेन्द्रयवोषणम् ।
अथ-वा विजया-शुण्ठी-देवदारु-पुनर्नवम् ॥ २ ॥
श्लोक 3
नवायसं वा दोषाढ्यः शुद्ध्यै मूत्र-हरीतकीः ।
वरा-क्वाथेन कटुका-कुम्भायस्-त्र्य्-ऊषणानि च ॥ ३ ॥
श्लोक 4
शुद्ध्यै मूत्र-हरीतकीम् अथ-वा गुग्गुलुं तद्-वज् जतु वा शैल-संभवम् ।
मन्दाग्निः शीलयेद् आम-गुरु-भिन्न-विबन्ध-विट् ॥ ४ ॥
श्लोक 5
तक्रं सौवर्चल-व्योष-क्षौद्र-युक्तं गुडाभयाम् ।
तक्रानु-पानाम् अथ-वा तद्-वद् वा गुड-नागरम् ॥ ५ ॥
श्लोक 6
आर्द्रकं वा सम-गुडं प्रकुञ्चार्ध-विवर्धितम् ।
परं पञ्च-पलं मासं यूष-क्षीर-रसाशनः ॥ ६ ॥
श्लोक 7
गुल्मोदरार्शः-श्वयथु-प्रमेहाञ् छ्वास-प्रतिश्यालसका-विपाकान् ।
स-कामला-शोष-मनो-विकारान् कासं कफं चैव जयेत् प्रयोगः ॥ ७ ॥
श्लोक 8
घृतम् आर्द्रक-नागरस्य कल्क-स्व-रसाभ्यां पयसा च साधयित्वा ।
श्वयथु-क्षवथूदराग्नि-सादैर् अभिभूतो ऽपि पिबन् भवत्य् अ-रोगः ॥ ८ ॥
श्लोक
रसस् तथैवार्द्रक-नागरस्य पेयो ऽथ जीर्णे पयसान्नम् अद्यात् ।
शिलाह्वयं वा त्रि-फला-रसेन हन्यात् त्रि-दोषं श्वयथुं प्रसह्य ॥ ८+१ ॥
श्लोक
पुनर्नवा-निम्ब-पटोल-शुण्ठी- तिक्तामृता-दार्व्य्-अभया-कषायः ।
सर्वाङ्ग-शोफोदर-कास-शूल-श्वासान्वितं पाण्डु-गदं च हन्ति ॥ ८+२ ॥
श्लोक 9
निर्-आमो बद्ध-शमलः पिबेच् छ्वयथु-पीडितः ।
त्रि-कटु-त्रिवृता-दन्ती-चित्रकैः साधितं पयः ॥ ९ ॥
श्लोक 10
मूत्रं गोर् वा महिष्या वा स-क्षीरं क्षीर-भोजनः ।
सप्ताहं मासं अथ-वा स्याद् उष्ट्र-क्षीर-वर्तनः ॥ १० ॥
श्लोक 11
स्याद् उष्ट्री-क्षीर-वर्तनः यवानकं यव-क्षारं यवानीं पञ्च-कोलकम् ।
मरिचं दाडिमं पाठां धानकाम् अम्ल-वेतसम् ॥ ११ ॥
श्लोक 12
बाल-बिल्वं च कर्षांशं साधयेत् सलिलाढके ।
तेन पक्वो घृत-प्रस्थः शोफार्शो-गुल्म-मेह-हा ॥ १२ ॥
श्लोक 13
दध्नश् चित्रक-गर्भाद् वा घृतं तत्-तक्र-संयुतम् ।
पक्वं स-चित्रकं तद्-वद् गुणैर् युञ्ज्याच् च काल-वित् ॥ १३ ॥
श्लोक 14
धान्वन्तरं महा-तिक्तं कल्याणम् अभया-घृतम् ।
दश-मूल-कषायस्य कंसे पथ्या-शतं पचेत् ॥ १४ ॥
श्लोक 15
दत्त्वा गुड-तुलां तस्मिन् लेहे दद्याद् विचूर्णितम् ।
त्रि-जातकं त्रि-कटुकं किञ्-चिच् च यव-शूक-जम् ॥ १५ ॥
श्लोक 16
प्रस्थार्धं च हिमे क्षौद्रात् तन् निहन्त्य् उपयोजितम् ॥ १६अब् ॥
प्रवृद्ध-शोफ-ज्वर-मेह-गुल्म-कार्श्याम-वाताम्लक-रक्त-पित्तम् ॥ १६च्द् ॥
वैवर्ण्य-मूत्रानिल-शुक्र-दोष-श्वासा-रुचि-प्लीह-गरोदरं च ॥ १६एf ॥
श्लोक 17
पुराण-यव-शाल्य्-अन्नं दश-मूलाम्बु-साधितम् ॥ १७अब् ॥
श्लोक 18
अल्पम् अल्प-पटु-स्नेहं भोजनं श्वयथोर् हितम् ।
क्षार-व्योषान्वितैर् मौद्गैः कौलत्थैः स-कणै रसैः ॥ १८ ॥
श्लोक 19
भोजनं श्वयथौ हितम् तथा जाङ्गल-जैः कूर्म-गोधा-शल्यक-जैर् अपि ।
अन्-अम्लं मथितं पाने मद्यान्य् औषध-वन्ति च ॥ १९ ॥
श्लोक 20
अजाजी-शठी-जिवन्ती-कारवी-पौष्कराग्निकैः ।
बिल्व-मध्य-यव-क्षार-वृक्षाम्लैर् बदरोन्मितैः ॥ २० ॥
श्लोक 21
कृता पेयाज्य-तैलाभ्यां युक्ति-भृष्टा परं हिता ।
शोफातीसार-हृद्-रोग-गुल्मार्शो-ऽल्पाग्नि-मेहिनाम् ॥ २१ ॥
श्लोक 22
गुणैस् तद्-वच् च पाठायाः पञ्च-कोलेन साधिता ।
शैलेय-कुष्ठ-स्थौणेय-रेणुकागुरु-पद्मकैः ॥ २२ ॥
श्लोक 23
श्रीवेष्टक-नख-स्पृक्का-देवदारु-प्रियङ्गुभिः ।
मांसी-मागधिका-वन्य-धान्य-ध्यामक-वालकैः ॥ २३ ॥
श्लोक 24
चतुर्-जातक-तालीश-मुस्ता-गन्ध-पलाशकैः ।
कुर्याद् अभ्यञ्जनं तैलं लेपं स्नानाय तूदकम् ॥ २४ ॥
श्लोक 25
स्नानं वा निम्ब-वर्षाभू-नक्तमालार्क-वारिणा ।
एकाङ्ग-शोफे वर्षाभू-करवीरक-किंशुकैः ॥ २५ ॥
श्लोक 26
विशाला-त्रि-फला-लोध्र-नलिका-देवदारुभिः ।
हिंस्रा-कोशातकी-माद्री-तालपर्णी-जयन्तिभिः ॥ २६ ॥
श्लोक 27
स्थूल-काकादनी-शाल-नाकुली-वृषपर्णिभिः ।
वृद्ध्यर्द्धि-हस्तिकर्णैश् च सुखोष्णैर् लेपनं हितम् ॥ २७ ॥
श्लोक 28
अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत् ।
तैलम् एरण्ड-जं वात-विड्-विबन्धे तद् एव तु ॥ २८ ॥
श्लोक 29
प्राग्-भक्तं पयसा युक्तं रसैर् वा कारयेत् तथा ।
स्वेदाभ्यङ्गान् समीर-घ्नान् लेपम् एकाङ्ग-गे पुनः ॥ २९ ॥
श्लोक 30
मातुलुङ्गाग्निमन्थेन शुण्ठी-हिंस्रामराह्वयैः ।
पैत्ते तिक्तं पिबेत् सर्पिर् न्यग्रोधाद्येन वा शृतम् ॥ ३० ॥
श्लोक 31
क्षीरं तृड्-दाह-मोहेषु लेपाभ्यङ्गाश् च शीतलाः ।
पटोल-मूल-त्रायन्ती-यष्ट्य्-आह्व-कटुकाभयाः ॥ ३१ ॥
श्लोक 32
पटोल-मूर्वा-त्रायन्ती- दारु दार्वी हिमं दन्ती विशाला निचुलं कणा ।
तैः क्वाथः स-घृतः पीतो हन्त्य् अन्तस्-ताप-तृड्-भ्रमान् ॥ ३२ ॥
श्लोक 33
तत्-क्वाथः स-घृतः पीतो स-संनिपात-वीसर्प-शोफ-दाह-विष-ज्वरान् ।
आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत् ॥ ३३ ॥
श्लोक 34
शोफ-दाह-मद-ज्वरान् स्रोतो-विबन्धे मन्दे ऽग्नाव् अ-रुचौ स्तिमिताशयः ।
क्षार-चूर्णासवारिष्ट-मूत्र-तक्राणि शीलयेत् ॥ ३४ ॥
श्लोक 35
कृष्णा-पुराण-पिण्याक-शिग्रु-त्वक्-सिकतातसीः ।
प्रलेपोन्मर्दने युञ्ज्यात् सुखोष्णा मूत्र-कल्किताः ॥ ३५ ॥
श्लोक 36
स्नानं मूत्राम्भसी सिद्धे कुष्ठ-तर्कारि-चित्रकैः ।
कुलत्थ-नागराभ्यां वा चण्डागुरु विलेपने ॥ ३६ ॥
श्लोक 37
कालाजशृङ्गी-सरल-बस्तगन्धा-हयाह्वयाः ।
एकैषीका च लेपः स्याच् छ्वयथाव् एक-गात्र-गे ॥ ३७ ॥
श्लोक
यष्टी-दुग्ध-तिलैर् लेपो नव-नीतेन संयुतः ।
शोफम् आरुष्करं हन्ति वृन्तैः शाल-दलस्य वा ॥ ३७+१ ॥
श्लोक 38
यथा-दोषं यथासन्नं शुद्धिं रक्तावसेचनम् ।
कुर्वीत मिश्र-दोषे तु दोषोद्रेक-बलात् क्रियाम् ॥ ३८ ॥
श्लोक 39
अजाजि-पाठा-घन-पञ्च-कोल-व्याघ्री-रजन्यः सुख-तोय-पीताः ।
शोफं त्रि-दोषं चिर-जं प्रवृद्धं निघ्नन्ति भूनिम्ब-महौषधे च ॥ ३९ ॥
श्लोक 40
अमृता-द्वितयं शिवातिका सुरकाष्ठं स-पुरं स-गो-जलम् ।
श्वयथूदर-कुष्ठ-पाण्डु-ता-कृमि-मेहोर्ध्व-कफानिलापहम् ॥ ४० ॥
श्लोक 41
इति निजम् अधिकृत्य पथ्यम् उक्तं क्षत-जनिते क्षत-जं विशोधनीयम् ।
स्रुति-हिम-घृत-लेप-सेक-रेकैर् विष-जनिते विष-जिच् च शोफ इष्टम् ॥ ४१ ॥
श्लोक 42
ग्राम्याब्-जानूपं पिशितम् अ-बलं शुष्क-शाकं तिलान्नं ॥ ४२अ ॥
गौडं पिष्टान्नं दधि स-लवणं विज्जलं मद्यम् अम्लम् ॥ ४२ब् ॥
गौडं पिष्टान्नं दधि स-लवणं निर्-जलं मद्यम् अम्लम् धाना वल्लूरं समशनम् अथो गुर्व् अ-सात्म्यं विदाहि ॥ ४२च् ॥
स्वप्नं चा-रात्रौ श्वयथु-गद-वान् वर्जयेन् मैथुनं च ॥ ४२द् ॥