श्लोक 1
सर्वार्थान्-अर्थ-करणे विश्वस्यास्यैक-कारणम् ।
अ-दुष्ट-दुष्टः पवनः शरीरस्य विशेषतः ॥ १ ॥
श्लोक 2
स विश्व-कर्मा विश्वात्मा विश्व-रूपः प्रजापतिः ।
स्रष्टा धाता विभुर् विष्णुः संहर्ता मृत्युर् अन्तकः ॥ २ ॥
श्लोक 3
तद्-अ-दुष्टौ प्रयत्नेन यतितव्यम् अतः सदा ।
तस्योक्तं दोष-विज्ञाने कर्म प्राकृत-वैकृतम् ॥ ३ ॥
श्लोक 4
समासाद् व्यासतो दोष-भेदीये नाम धाम च ।
प्रत्य्-एकं पञ्च-धा चारो व्यापारश् चेह वैकृतम् ॥ ४ ॥
श्लोक 5
तस्योच्यते विभागेन स-निदानं स-लक्षणम् ।
धातु-क्षय-करैर् वायुः कुप्यत्य् अति-निषेवितैः ॥ ५ ॥
श्लोक
अ-संख्यम् अपि संख्याय यद् अशीत्या पुरेरितम् ५.१+(१)अब् ॥
श्लोक 6
ब्व् यथाशीत्य् अपरेरितम् चरन् स्रोतःसु रिक्तेषु भृशं तान्य् एव पूरयन् ।
तेभ्यो ऽन्य-दोष-पूर्णेभ्यः प्राप्य वावरणं बली ॥ ६ ॥
श्लोक 7
तत्र पक्वाशये क्रुद्धः शूलानाहान्त्र-कूजनम् ।
मल-रोधाश्म-वर्ध्मार्शस्-त्रिक-पृष्ठ-कटी-ग्रहम् ॥ ७ ॥
श्लोक 8
करोत्य् अधर-काये च तांस् तान् कृच्छ्रान् उपद्रवान् ।
आमाशये तृड्-वमथु-श्वास-कास-विषूचिकाः ॥ ८ ॥
श्लोक 9
करोत्य् अधर-कायेषु कण्ठोपरोधम् उद्गारान् व्याधीन् ऊर्ध्वं च नाभितः ।
श्रोत्रादिष्व् इन्द्रिय-वधं त्वचि स्फुटन-रूक्ष-ते ॥ ९ ॥
श्लोक 10
रक्ते तीव्रा रुजः स्वापं तापं रागं वि-वर्ण-ताम् ।
अरूंष्य् अन्नस्य विष्टम्भम् अ-रुचिं कृश-तां भ्रमम् ॥ १० ॥
श्लोक 11
अरूंष्य् अङ्गस्य विष्टम्भम् मांस-मेदो-गतो ग्रन्थींस् तोदाढ्यान् कर्कशाञ् छ्रमम् ।
गुर्व् अङ्गं चाति-रुक् स्तब्धं मुष्टि-दण्ड-हतोपमम् ॥ ११ ॥
श्लोक 12
तोदाढ्यान् कर्कशाञ् छ्रमान् तोदाढ्यान् कर्कशान् भृशम् अस्थि-स्थः सक्थि-संध्य्-अस्थि-शूलं तीव्रं बल-क्षयम् ।
मज्ज-स्थो ऽस्थिषु सौषिर्यम् अ-स्वप्नं संततां रुजम् ॥ १२ ॥
श्लोक 13
अ-स्वप्नं स्तब्ध-तां रुजम् शुक्रस्य शीघ्रम् उत्सर्गं सङ्गं विकृतिम् एव वा ।
तद्-वद् गर्भस्य शुक्र-स्थः सिरास्व् आध्मान-रिक्त-ते ॥ १३ ॥
श्लोक 14
तत्-स्थः स्नाव-स्थितः कुर्याद् गृध्रस्य्-आयाम-कुब्ज-ताः ।
वात-पूर्ण-दृति-स्पर्शं शोफं संधि-गतो ऽनिलः ॥ १४ ॥
श्लोक 15
गृध्रस्य्-आयाम-कुब्ज-ताम् प्रसारणाकुञ्चनयोः प्रवृत्तिं च स-वेदनाम् ।
सर्वाङ्ग-संश्रयस् तोद-भेद-स्फुरण-भञ्जनम् ॥ १५ ॥
श्लोक 16
स्तम्भनाक्षेपण-स्वाप-संध्य्-आकुञ्चन-कम्पनम् ।
यदा तु धमनीः सर्वाः क्रुद्धो ऽभ्येति मुहुर् मुहुः ॥ १६ ॥
श्लोक 17
तदाङ्गम् आक्षिपत्य् एष व्याधिर् आक्षेपकः स्मृतः ।
अधः प्रतिहतो वायुर् व्रजन्न् ऊर्ध्वं हृद्-आश्रिताः ॥ १७ ॥
श्लोक 18
व्रजन्न् ऊर्ध्वं हृद्-आश्रयाः नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन् ।
आक्षिपेत् परितो गात्रं धनुर्-वच् चास्य नामयेत् ॥ १८ ॥
श्लोक 19
शिरः शङ्खौ च पीडयेत् कृच्छ्राद् उच्छ्वसिति स्तब्ध-स्रस्त-मीलित-दृक् ततः ।
कपोत इव कूजेच् च निः-संज्ञः सो ऽपतन्त्रकः ॥ १९ ॥
श्लोक 20
स एव चापतानाक्य्हो मुक्ते तु मरुता हृदि ।
अश्नुवीत मुहुः स्वास्थ्यं मुहुर् अ-स्वास्थ्यम् आवृते ॥ २० ॥
श्लोक 21
अश्नुवीत इव स्वास्थ्यं गर्भ-पात-समुत्पन्नः शोणिताति-स्रवोत्थितः ।
अभिघात-समुत्थश् च दुश्-चिकित्स्य-तमो हि सः ॥ २१ ॥
श्लोक 22
मन्ये संस्तभ्य वातो ऽन्तर् आयच्छन् धमनीर् यदा ।
व्याप्नोति सकलं देहं जत्रुर् आयम्यते तदा ॥ २२ ॥
श्लोक 23
आगच्छन् धमनीर् यदा अन्तर् धनुर् इवाङ्गं च वेगैः स्तम्भं च नेत्रयोः ।
करोति जृम्भां दशनं दशनानां कफोद्वमम् ॥ २३ ॥
श्लोक 24
पार्श्वयोर् वेदनां वाक्य-हनु-पृष्ठ-शिरो-ग्रहम् ।
अन्तर्-आयाम इत्य् एष बाह्यायामश् च तद्-विधः ॥ २४ ॥
श्लोक 25
देहस्य बहिर्-आयामात् पृष्ठतो नीयते शिरः ।
उरश् चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते ॥ २५ ॥
श्लोक 26
पृष्ठतो ह्रियते शिरः दन्तेष्व् आस्ये च वैवर्ण्यं प्रस्वेदः स्रस्त-गात्र-ता ।
बाह्यायामं धनुः-ष्कम्भं ब्रुवते वेगिनं च तम् ॥ २६ ॥
श्लोक 27
बाह्यायामं धनुः-स्तम्भं व्रणं मर्माश्रितं प्राप्य समीरण-समीरणात् ।
व्यायच्छन्ति तनुं दोषाः सर्वाम् आ-पाद-मस्तकम् ॥ २७ ॥
श्लोक 28
व्रणं मर्माश्रयं प्राप्य तृष्यतः पाण्डु-गात्रस्य व्रणायामः स वर्जितः ।
गते वेगे भवेत् स्वास्थ्यं सर्वेष्व् आक्षेपकेषु च ॥ २८ ॥
श्लोक 29
सर्वेष्व् आक्षेपकेषु तु जिह्वाति-लेखनाच् छुष्क-भक्षणाद् अभिघाततः ।
कुपितो हनु-मूल-स्थः स्रंसयित्वानिलो हनू ॥ २९ ॥
श्लोक 30
करोति विवृतास्य-त्वम् अथ-वा संवृतास्य-ताम् ।
हनु-स्रंसः स तेन स्यात् कृच्छ्राच् चर्वण-भाषणम् ॥ ३० ॥
श्लोक 31
वाग्-वाहिनी-सिरा-संस्थो जिह्वां स्तम्भयते ऽनिलः ।
जिह्वा-स्तम्भः स तेनान्न-पान-वाक्येष्व् अन्-ईश-ता ॥ ३१ ॥
श्लोक 32
शिरसा भार-हरणाद् अति-हास्य-प्रभाषणात् ।
उत्त्रास-वक्त्र-क्षवथोः खर-कार्मुक-कर्षणात् ॥ ३२ ॥
श्लोक 33
उच्छ्वास-वक्र-क्षवथु- उत्त्रास-वक्त्र-क्षवथु-खर-कार्मुक-कर्षणात् विषमाद् उपधानाच् च कठिनानां च चर्वणात् ।
वायुर् विवृद्धस् तैस् तैश् च वातलैर् ऊर्ध्वम् आस्थितः ॥ ३३ ॥
श्लोक 34
वक्री-करोति वक्त्रार्धम् उक्तं हसितम् ईक्षितम् ।
ततो ऽस्य कम्पते मूर्धा वाक्-सङ्गः स्तब्ध-नेत्र-ता ॥ ३४ ॥
श्लोक 35
वाग्-भङ्गः स्तब्ध-नेत्र-ता दन्त-चालः स्वर-भ्रंशः श्रुति-हानिः क्षव-ग्रहः ।
गन्धा-ज्ञानं स्मृतेर् मोहस् त्रासः सुप्तस्य जायते ॥ ३५ ॥
श्लोक 36
निष्ठीवः पार्श्वतो यायाद् एकस्याक्ष्णो निमीलनम् ।
जत्रोर् ऊर्ध्वं रुजा तीव्रा शरीरार्धे ऽधरे ऽपि वा ॥ ३६ ॥
श्लोक 37
तम् आहुर् अर्दितं के-चिद् एकायामम् अथापरे ।
रक्तम् आश्रित्य पवनः कुर्यान् मूर्ध-धराः सिराः ॥ ३७ ॥
श्लोक 38
रूक्षाः स-वेदनाः कृष्णाः सो ऽ-साध्यः स्यात् सिरा-ग्रहः ।
गृहीत्वार्धं तनोर् वायुः सिराः स्नायूर् विशोष्य च ॥ ३८ ॥
श्लोक 39
पक्षम् अन्य-तरं हन्ति संधि-बन्धान् विमोक्षयन् ।
कृत्स्नो ऽर्ध-कायस् तस्य स्याद् अ-कर्मण्यो वि-चेतनः ॥ ३९ ॥
श्लोक 40
एकाङ्ग-रोगं तं के-चिद् अन्ये पक्ष-वधं विदुः ।
सर्वाङ्ग-रोगं तद्-वच् च सर्व-कायाश्रिते ऽनिले ॥ ४० ॥
श्लोक 41
शुद्ध-वात-हतः पक्षः कृच्छ्र-साध्य-तमो मतः ।
कृच्छ्रस् त्व् अन्येन संसृष्टो विवर्ज्यः क्षय-हेतुकः ॥ ४१ ॥
श्लोक 42
आम-बद्धायनः कुर्यात् संस्थभ्याङ्गं कफान्वितः ।
अ-साध्यं हत-सर्वेहं दण्ड-वद् दण्डकं मरुत् ॥ ४२ ॥
श्लोक 43
अंस-मूल-स्थितो वायुः सिराः संकोच्य तत्र-गाः ।
बाहु-प्रस्पन्दित-हरं जनयत्य् अव-बाहुकम् ॥ ४३ ॥
श्लोक 44
तलं प्रत्य् अङ्गुलीनां या कण्डरा बाहु-पृष्ठतः ।
बाहु-चेष्टापहरणी विश्वाची नाम सा स्मृता ॥ ४४ ॥
श्लोक 45
बाह्वोः कर्म-क्षय-करी वायुः कट्यां स्थितः सक्थ्नः कण्डराम् आक्षिपेद् यदा ।
तदा खञ्जो भवेज् जन्तुः पङ्गुः सक्थ्नोर् द्वयोर् अपि ॥ ४५ ॥
श्लोक 46
कम्पते गमनारम्भे खञ्जन्न् इव च याति यः ।
कलाय-खञ्जं तं विद्यान् मुक्त-संधि-प्रबन्धनम् ॥ ४६ ॥
श्लोक 47
शीतोष्ण-द्रव-संशुष्क-गुरु-स्निग्धैर् निषेवितैः ।
जीर्णा-जीर्णे तथायास-संक्षोभ-स्वप्न-जागरैः ॥ ४७ ॥
श्लोक 48
स-श्लेष्म-मेदः-पवनम् आमम् अत्य्-अर्थ-संचितम् ।
अभिभूयेतरं दोषम् ऊरू चेत् प्रतिपद्यते ॥ ४८ ॥
श्लोक 49
सक्थ्य्-अस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत् ।
तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ ४९ ॥
श्लोक 50
तदा स्कन्दति तेनोरू तदा स्कन्नाति तेनोरू परकीयाव् इव गुरू स्याताम् अति-भृश-व्यथौ ।
ध्यानाङ्ग-मर्द-स्तैमित्य-तन्द्रा-छर्द्य्-अ-रुचि-ज्वरैः ॥ ५० ॥
श्लोक 51
संयुतौ पाद-सदन-कृच्छ्रोद्धरण-सुप्तिभिः ।
तम् ऊरु-स्तम्भम् इत्य् आहुर् आढ्य-वातम् अथापरे ॥ ५१ ॥
श्लोक 52
संयुक्तौ पाद-सदन- वात-शोणित-जः शोफो जानु-मध्ये महा-रुजः ।
ज्ञेयः क्रोष्टुक-शीर्षश् च स्थूलः क्रोष्टुक-शीर्ष-वत् ॥ ५२ ॥
श्लोक 53
स्थूलः क्रोष्टुक-मूर्ध-वत् रुक् पादे विषम-न्यस्ते श्रमाद् वा जायते यदा ।
वातेन गुल्फम् आश्रित्य तम् आहुर् वात-कण्टकम् ॥ ५३ ॥
श्लोक 54
पार्ष्णिं प्रत्य् अङ्गुलीनां या कण्डरा मारुतार्दिता ।
सक्थ्य्-उत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ ५४ ॥
श्लोक 55
विश्वाची गृध्रसी चोक्ता खल्लिस् तीव्र-रुजान्विते ।
हृष्येते चरणौ यस्य भवेतां च प्रसुप्त-वत् ॥ ५५ ॥
श्लोक 56
खल्लिस् तीव्र-रुजान्विता पाद-हर्षः स विज्ञेयः कफ-मारुत-कोप-जः ।
पादयोः कुरुते दाहं पित्तासृक्-सहितो ऽनिलः ॥ ५६ ॥
श्लोक
विशेषतश् चङ्क्रमिते पाद-दाहं तम् आदिशेत् ॥ ५६ऊअब् ॥
̆अव् विशेषतश् चङ्क्रमतः