श्लोक 50
त्रि-फला-पञ्च-मूलानां कषायं क्षीर-संयुतम् ।
एरण्ड-तैल-संयुक्तं योजयेच् च विरेचनम् ॥ ५० ॥
श्लोक 51
एरण्ड-तैल-संमिश्रं योजयेत विरेचनम् स-मूल-जाल-जीवन्ती-तुलां द्रोणे ऽम्भसः पचेत् ।
अष्ट-भाग-स्थिते तस्मिंस् तैल-प्रस्थं पयः-समे ॥ ५१ ॥
श्लोक 52
तैल-प्रस्थं पयः-समम् बला-त्रितय-जीवन्ती-वरी-मूलैः पलोन्मितैः ।
यष्टी-पलैश् चतुर्भिश् च लोह-पात्रे विपाचयेत् ॥ ५२ ॥
श्लोक 53
बला-त्रि-जात-जीवन्ती- लोह एव स्थितं मासं नावनाद् ऊर्ध्व-जत्रु-जान् ।
वात-पित्तामयान् हन्ति तद् विशेषाद् दृग्-आश्रयान् ॥ ५३ ॥
श्लोक 54
लोह-पात्र-स्थितं मासं तद् विशेषाद् दृग्-आमयान् केशास्य-कन्धरा-स्कन्ध-पुष्टि-लावण्य-कान्ति-दम् ।
सितैरण्ड-जटा-सिंही-फल-दारु-वचा-नतैः ॥ ५४ ॥
श्लोक 55
पुष्टि-लावण्य-कान्ति-कृत् घोषया बिल्व-मूलैश् च तैलं पक्वं पयो-ऽन्वितम् ।
नस्यं सर्वोर्ध्व-जत्रूत्थ-वात-श्लेष्मामयार्ति-जित् ॥ ५५ ॥
श्लोक 56
शताह्वा-बिल्व-मूलैश् च वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते ।
गृध्राहि-कुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥ ५६ ॥
श्लोक 57
प्रत्यञ्जने च स्रोतो-जं रस-क्षीर-घृते क्रमात् ।
निषिक्तं पूर्व-वद् योज्यं तिमिर-घ्नम् अन्-उत्तमम् ॥ ५७ ॥
श्लोक 58
रस-क्षीर-घृतैः क्रमात् न चेद् एवं शमं याति ततस् तर्पणम् आचरेत् ।
शताह्वा-कुष्ठ-नलद-काकोली-द्वय-यष्टिभिः ॥ ५८ ॥
श्लोक 59
प्रपौण्डरीक-सरल-पिप्पली-देवदारुभिः ।
सर्पिर् अष्ट-गुण-क्षीरं पक्वं तर्पणम् उत्तमम् ॥ ५९ ॥
श्लोक 60
मेदसस् तद्-वद् ऐणेयाद् दुग्ध-सिद्धात् खजाहतात् ।
उद्धृतं साधितं तेजो मधुकोशीर-चन्दनैः ॥ ६० ॥
श्लोक 61
श्वाविच्-छल्यक-गोधानां दक्ष-तित्तिरि-बर्हिणाम् ।
पृथक् पृथग् अनेनैव विधिना कल्पयेद् वसाम् ॥ ६१ ॥
श्लोक 62
श्वाविच्-छल्यक-गोधानाम् श्वा-विष्किराक-गोधानाम् ऋक्ष-तित्तिरि-बर्हिणाम् प्रसादनं स्नेहनं च पुट-पाकं प्रयोजयेत् ।
वात-पीनस-वच् चात्र निरूहं सानुवासनम् ॥ ६२ ॥
श्लोक 63
निरूहं चानुवासनम् पित्त-जे तिमिरे सर्पिर् जीवनीय-फल-त्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम् ॥ ६३ ॥
श्लोक 64
शर्करैला-त्रिवृच्-चूर्णैर् मधु-युक्तैर् विरेचयेत् ।
सु-शीतान् सेक-लेपादीन् युञ्ज्यान् नेत्रास्य-मूर्धसु ॥ ६४ ॥
श्लोक 65
शारिवा-पद्मकोशीर-मुक्ता-शाबर-चन्दनैः ।
वर्तिः शस्ताञ्जने चूर्णस् तथा पत्त्रोत्पलाञ्जनैः ॥ ६५ ॥
श्लोक 66
वर्तिः शस्ताञ्जनं चूर्णस् तथा पद्मोत्पलाञ्जनैः स-नागपुष्प-कर्पूर-यष्ट्य्-आह्व-स्वर्ण-गैरिकैः ।
सौवीराञ्जन-तुत्थक-शृङ्गी-धात्री-फल-स्फटिक-कर्पूरम् ॥ ६६ ॥
श्लोक 67
पञ्चांशं पञ्चांशं त्र्य्-अंशम् अथैकांशम् अञ्जनं तिमिर-घ्नम् ।
नस्यं चाज्यं शृतं क्षीर-जीवनीय-सितोत्पलैः ॥ ६७ ॥
श्लोक 68
श्लेष्मोद्भवे ऽमृता-क्वाथ-वरा-कण-शृतं घृतम् ।
विध्येत् सिरां पीत-वतो दद्याच् चानु विरेचनम् ॥ ६८ ॥
श्लोक 69
क्वाथं पूगाभया-शुण्ठी-कृष्णा-कुम्भ-निकुम्भ-जम् ।
ह्रीवेर-दारु-द्वि-निशा-कृष्णा-कल्कैः पयो-ऽन्वितैः ॥ ६९ ॥
श्लोक 70
द्वि-पञ्च-मूल-निर्यूहे तैलं पक्वं च नावनम् ।
शङ्ख-प्रियङ्गु-नेपाली-कटु-त्रिक-फल-त्रिकैः ॥ ७० ॥
श्लोक 71
दृग्-वैमल्याय वि-मला वर्तिः स्यात् कोकिला पुनः ।
कृष्ण-लोह-रजो-व्योष-सैन्धव-त्रि-फलाञ्जनैः ॥ ७१ ॥
श्लोक 72
वर्तिः स्यात् कौलिका पुनः शश-गो-खर-सिंहोष्ट्र-द्वि-जा लालाटम् अस्थि च ।
श्वेत-गो-वाल-मरिच-शङ्ख-चन्दन-फेनकम् ॥ ७२ ॥
श्लोक 73
पिष्टं स्तन्याज्य-दुग्धाभ्यां वर्तिस् तिमिर-शुक्र-जित् ।
रक्त-जे पित्त-वत् सिद्धिः शीतैश् चास्रं प्रसादयेत् ॥ ७३ ॥
श्लोक
मधूक-साराञ्जन-ताम्र-त्रि-कटुक-विडङ्ग-पौण्डरीकाणि ।
स-लवण-तुत्थ-त्रि-फला-लोध्राणि नभो-ऽम्बु-पिष्टानि ॥ ७३+१ ॥
श्लोक
वर्तिश् चतुर्-दशाङ्गी नयनामय-नाशनी शिला-स्तम्भे ।
लिखिता हिताय जगतस् तिमिरापहरी विशेषेण ॥ ७३+२ ॥
श्लोक
एक-गुणा मागधिका द्वि-गुणा च हरीतकी सलिल-पिष्टा ।
वर्तिर् इयं तिमिर-पटल-काच-कण्ड्व्-अस्र-हरी ॥ ७३+३ ॥
श्लोक 74
द्राक्षया नलद-लोध्र-यष्टिभिः शङ्ख-ताम्र-हिम-पद्म-पद्मकैः ।
सोत्पलैश् छगल-दुग्ध-वर्तितैर् अस्र-जं तिमिरम् आशु नश्यति ॥ ७४ ॥
श्लोक 75
द्राक्षया नलद-लोध्र-यष्टिका-शङ्ख-ताम्र-हिम-पद्म-पद्मकैः -शङ्ख-ताम्र-हिम-पद्म-पत्त्रकैः संसर्ग-संनिपातोत्थे यथा-दोषोदयं क्रिया ।
सिद्धं मधूक-कृमिजिन्-मरिचामरदारुभिः ॥ ७५ ॥
श्लोक 76
स-क्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च ।
नत-नीलोत्पलानन्ता-यष्ट्य्-आह्व-सुनिषण्णकैः ॥ ७६ ॥
श्लोक 77
साधितं नावने तैलं शिरो-वस्तौ च शस्यते ।
दद्याद् उशीर-निर्यूहे चूर्णितं कण-सैन्धवम् ॥ ७७ ॥
श्लोक 78
साधितं नावनं तैलं तत् स्रुतं स-घृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् ।
शीते चास्मिन् हितम् इदं सर्व-जे तिमिरे ऽञ्जनम् ॥ ७८ ॥
श्लोक 79
तच् छृतं स-घृतं भूयः अस्थीनि मज्ज-पूर्णानि सत्-त्वानां रात्रि-चारिणाम् ।
स्रोतो-जाञ्जन-युक्तानि वहत्य् अम्भसि वासयेत् ॥ ७९ ॥
श्लोक 80
स्रोतो-ऽञ्जनेन युक्तानि मासं विंशति-रात्रं वा ततश् चोद्धृत्य शोषयेत् ।
स-मेषशृङ्गी-पुष्पाणि स-यष्ट्य्-आह्वानि तान्य् अनु ॥ ८० ॥
श्लोक 81
स-यष्ट्य्-आह्वानि तानि तु चूर्णितान्य् अञ्जनं श्रेष्ठं तिमिरे सांनिपातिके ।
काचे ऽप्य् एषा क्रिया मुक्त्वा सिरां यन्त्र-निपीडिताः ॥ ८१ ॥
श्लोक 82
सिरा यन्त्र-निपीडिताः सिरां यन्त्र-निपीडनात् आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्व् अस्रे जलौकसः ।
गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमाद् रजः ॥ ८२ ॥
श्लोक 83
आन्ध्याय स्युर् अतो दद्यात् रस-क्रियेयं स-क्षौद्रा काच-यापनम् अञ्जनम् ।
नकुलान्धे त्रि-दोषोत्थे तैमिर्य-विहितो विधिः ॥ ८३ ॥
श्लोक 84
तैमिर्य-विधि-वत् क्रियाः रस-क्रिया घृत-क्षौद्र-गो-मय-स्व-रस-द्रुतैः ।
तार्क्ष्य-गैरिक-तालीशैर् निशान्धे हितम् अञ्जनम् ॥ ८४ ॥
श्लोक 85
निशान्ध्ये हितम् अञ्जनम् दध्ना विघृष्टं मरिचं रात्र्य्-अन्धे ऽञ्जनम् उत्तमम् ।
करञ्जिकोत्पल-स्वर्ण-गैरिकाम्भो-ज-केसरैः ॥ ८५ ॥
श्लोक 86
रात्र्य्-अन्धाञ्जनम् उत्तमम् कारञ्जिकोत्पल-स्वर्ण- पिष्टैर् गो-मय-तोयेन वर्तिर् दोषान्ध-नासिनी ।
अजा-मूत्रेण वा कौन्ती-कृष्णा-स्रोतो-ज-सैन्धवैः ॥ ८६ ॥
श्लोक 87
वर्तिर् दोषान्ध्य-नासिनी कालानुसारी-त्रि-कटु-त्रि-फलाल-मनःशिलाः ।
स-फेनाश् छाग-दुग्धेन रात्र्य्-अन्धे वर्तयो हिताः ॥ ८७ ॥
श्लोक 88
रात्र्य्-आन्ध्ये वर्तयो हिताः संनिवेश्य यकृन्-मध्ये पिप्पलीर् अ-दहन् पचेत् ।
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम् ॥ ८८ ॥
श्लोक 89
निशान्ध्ये श्रेष्ठम् अञ्जनम् नक्तान्ध्ये श्रेष्ठम् अञ्जनम् खादेच् च प्लीह-यकृती माहिषे तैल-सर्पिषा ।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥ ८९ ॥
श्लोक 90
तथातिमुक्तकैरण्ड-शेफाल्य्-अभीरु-जानि च ।
भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥ ९० ॥
श्लोक 91
सिद्धं घृतं कुम्भ-योनेः पत्त्रैः पाने ऽति-पूजितम् धूमराख्याम्ल-पित्तोष्ण-विदाहे जीर्ण-सर्पिषा ।
स्निग्धं विरेचयेच् छीतैः शीतैर् दिह्याच् च सर्वतः ॥ ९१ ॥
श्लोक 92
गो-शकृद्-रस-दुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् ।
स्वर्ण-गैरिक-तालीश-चूर्णावापा रस-क्रिया ॥ ९२ ॥
श्लोक 93
मेदा-शाबरकानन्ता-मञ्जिष्ठा-दार्वि-यष्टिभिः ।
क्षीराष्टांशं घृतं पक्वं स-तैलं नावनं हितम् ॥ ९३ ॥
श्लोक 94
तर्पणं क्षीर-सर्पिः स्याद् अ-शाम्यति सिरा-व्यधः ।
चिन्ताभिघात-भी-शोक-रौक्ष्यात् सोत्कटकासनात् ॥ ९४ ॥
श्लोक 95
रूक्षाम्ल-कटुकाशनात् विरेक-नस्य-वमन-पुट-पाकादि-विभ्रमात् ।
विदग्धाहार-वमनात् क्षुत्-तृष्णादि-विधारणात् ॥ ९५ ॥
श्लोक 96
अक्षि-रोगावसानाच् च पश्येत् तिमिर-रोगि-वत् ।
यथा-स्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥ ९६ ॥
श्लोक 97
सूर्योपरागानल-विद्युद्-आदि-विलोकनेनोपहतेक्षणस्य ।
संतर्पणं स्निग्ध-हिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥ ९७ ॥
श्लोक 98
चक्षू-रक्षायां सर्व-कालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावद् इच्छा ।
व्यर्थो लोको ऽयं तुल्य-रात्रिन्-दिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते ॥ ९८ ॥
श्लोक 99
त्रि-फला रुधिर-स्रुतिर् विशुद्धिर् मनसो निर्वृतिर् अञ्जनं स-नस्यम् ।
शकुनाशन-ता स-पाद-पूजा घृत-पानं च सदैव नेत्र-रक्षा ॥ ९९ ॥
श्लोक 100
मनसो निर्वृतिर् अञ्जनं च नस्यम् शयनासन-ता स-पाद-पूजा शयनासन-तोष-पाद-पूजा अ-हिताद् अशनात् सदा निवृत्तिर् भृश-भास्-वच्-चल-सूक्ष्म-वीक्षणाच् च ।
मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम् ॥ १०० ॥