श्लोक 1
अथातोऽग्र्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
श्रेष्ठमुदकमाश्वासनस्तम्भनक्लेदनानाम्।
स्नानं सुरा च श्रमहराणाम्।
क्षीरं जीवनीयानाम्।
मांसं बृंहणीयानाम्।
रसः प्रीणनानाम्।
लवणमन्नद्रव्यरुचिकराणाम्।
तिन्दुकमन्नद्रव्यारुचिकराणाम्।
अम्लं हृद्यानाम्।
कुक्कुटो बल्यानाम्।
तैलं वातश्लेष्मप्रशमनानाम्।
सर्पिर्वातपित्तप्रशमनानाम्।
मधु श्लेष्मपित्तप्रशमनानाम्।
स्वेदो मार्दवकराणाम्।
व्यायामः स्थैर्यकराणाम्।
क्षारः पुंस्त्वोपघातिनाम्।
आमं कपित्थमकण्ठ्यानाम्।
आविकं सर्पिरहृद्यानाम्।
महिषीक्षीरं स्वप्नजननानाम्।
मन्दकं दध्यभिष्यन्दकराणाम्।
इक्षुर्मूत्रजननानाम्।
यवाः पुरीषजननानाम्।
जाम्बवं वातजननानाम्।
कुलत्थोऽम्लपित्तजननानाम्।
माषाः शष्कुल्योऽविक्षीरं च पित्तश्लेष्मजननानाम्।
दुरालभा पित्तश्लेष्मोपशोषणानाम्।
उपवासो ज्वरहराणां।
वृषो रक्तपित्तप्रशमनानाम्।
कण्टकारिका कासघ्नानाम्।
लाक्षा सद्यःक्षतघ्नानाम्।
नागबलाभ्यासः क्षतक्षयघ्नानाम्।
पुष्करमूलं हिध्माश्वासकासपार्श्वशूलारुचिहराणाम्।
अजापयः शोषघ्नस्तन्यकररक्तसङ्ग्रहणप्रशमनानाम्।
मृद्भृष्टलोष्टप्रसादः छर्दितृष्णातियोगप्रशमनानाम्।
अरुष्करश्चित्रकमूलं च शुष्कार्शःप्रशमनानाम्।
कुटजो रक्तर्शःप्रशमनानाम्।
लाजाश्छर्दिघ्नानाम्।
यावशूकः स्रंसनीयपाचनीयार्शोघ्नानाम्।
तक्राभ्यासोऽर्शःश्वयथुग्रहणीदोषघृतव्यापत्प्रशमनानाम्।
क्रव्यान्मांसाभ्यासोऽर्शःशोषग्रहणीदोषघ्नानाम्।
मुस्तं सङ्ग्रहणीयदीपनीयपाचनीयानाम्।
अतिविषा सङ्ग्रहणीयपाचनीयसर्वदोषहराणाम्।
बिल्वं सङ्ग्रहणीयदीपनीयवातकफप्रशमनानाम्।
उदीच्यं निर्वापणदीपनीयछर्द्यतीसारहराणाम्।
कट्वङ्गं सङ्ग्रहणीयदीपनीयानाम्।
कुटजत्वक् श्लेष्मपित्तरक्तसङ्ग्रहणीयोपशोषणीयानाम्।
उत्पलकुमुदकिञ्जल्कोऽनन्ता च सङ्ग्रहणीयरक्तपित्तप्रशमनानाम्।
काश्मर्यफलं रक्तसङ्ग्रहणीयरक्तपित्तप्रशमनानाम्।
गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानाम्।
पृश्निपर्णी रक्तसङ्ग्रहणीयदीपनीयपाचनीयवातहरवृष्याणाम्।
सालपर्णी वृष्यसर्वदोषहराणाम्।
बला सङ्ग्रहणीयबल्यवातहराणाम्।
पिप्पलीमूलं दीपनीयपाचनीयानाहहराणाम् चित्रकमूलं दीपनीयपाचनीयगुदशोफशूलहराणाम्।
गोक्षुरको मूत्रकृच्छ्रानिलहराणाम्।
हरिद्रा प्रमेहहराणाम्।
रक्तावसेको विद्रधिविसर्पपिटकागण्डमालापहराणाम्।
एरण्डतैलाभ्यासो वर्ध्मगुल्मानिलशूलहराणाम्।
लशुनो गुल्मानिलहराणाम्।
हिङ्गुनिर्यासःश्छेदनीयपाचनीयानुलोमिकवातकफप्रशमनानाम्।
अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्।
उष्ट्रीक्षीरमुदरश्वयथुघ्नानाम्।
अयोरजः पाण्डुरोगघ्नानाम्।
खदिरः कुष्ठघ्नानाम्।
विडङ्गः कृमिघ्नानाम्।
रास्ना वातहराणाम्।
एरण्डमूलं वृष्यवातहराणाम्।
गुग्गुलुर्मेदोनिलहराणाम्।
अमृता सङ्ग्रहणीयदीपनीयवातश्लेष्मशोणितविबन्धप्रशमनानाम्।
मदनफलं वमनास्थापनानुवासनोपयोगिनाम्।
त्रिवृत्सुखविरेचनानाम्।
चतुरङ्गुलो मृदुविरेचनानाम्।
स्नुक्पयस्तीक्ष्णविरेचनानाम्।
प्रत्यक्पुष्पी शिरोविरेचनानाम्।
त्रिफलातिमिरघ्नानाम्।
गुग्गुलुर्व्रण्यानाम्।
शिरीषो विषघ्नानाम्।
आमलकं वयस्थापनानाम्।
हरीतकी पथ्यानाम्।
क्षीरघृताभ्यासो रसायनानाम्।
समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणाम्।
सङ्कल्पो नक्ररेतश्च वृष्याणाम्॥
श्लोक 3
दौर्मनस्यमवृष्याणाम्।
तैलगण्डूषाभयासो दन्तबलरुचिकराणाम्।
चन्दनोदुम्बरं दाहनिर्वापणलेपनानाम्।
रास्नागरुणी शीतापनयनप्रलेपनानाम्।
लामज्जकोशीरे दाहत्वग्दोषस्वेदापनयनप्रलेपनानाम्।
कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनाम्।
मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यबल्यविरेचनीयरोपणीयानाम्।
अजीर्णाशनं ग्रहणीदूषणानाम्।
विरुद्धवीर्याशनं निन्दितव्याधिकराणाम्।
गुरुभोजनं दुर्विपाकानाम्।
अतिमात्राशनमामदोषहेतूनाम्।
यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानाम्।
यथासात्म्यमाहारविहारौ सेव्यानाम्।
एकासनशयनभोजनं सुखनाशकराणाम्।
विषमाशनमग्निवैषम्यकराणाम्।
काले भोजनमारोग्यकराणाम्।
सुदर्शनमन्नं श्रद्धाजननानाम्।
वेगधारणमनारोग्यकराणाम्।
तृप्तिराहारगुणानाम्।
अनशनमायुषो ह्रासकराणाम्।
प्रमिताशनं गवेधुकान्नं च कर्शनीयानाम्।
उद्दालकान्नं रूक्षणीयानाम् मद्यं सौमनस्यजननानाम्।
मद्याक्षेपो धीधृतिस्मृतिहराणाम्।
स्त्रीष्वतिप्रसङ्गः शोषकराणाम्।
शुक्रवेगविनिग्रहः षाण्ढ्यकराणाम् पादाभ्यामुद्वर्तनमन्नश्रद्धाजननानाम्।
सूनादर्शनमन्नाश्रद्धाजननानाम्॥
श्लोक 4
मिथ्यायोगो व्याधिमुखानाम्।
रजस्वलागमनमलक्ष्मीमुखानाम्।
ब्रह्मचर्यमायुष्याणम्।
परदारगमनमनायुष्याणाम्।
अयथाप्राणमारम्भः प्राणोपरोधिनाम्।
विषादो रोगवर्द्धनानाम्।
हर्षः प्रीणनानाम्।
शोकः शोषणानाम्।
आश्वासो बलकराणाम्।
निर्वृतिः पुष्टिकराणाम्।
पुष्टिः स्वप्नकराणाम्।
स्वप्नः तन्द्रीकराणाम्।
सर्वरसाभ्यासो बलकराणाम्।
एकरसाभ्यासो दौर्बल्यारोचकान्यतमदोषप्रकोपकराणाम्।
गर्भशल्यमाहार्याणाम्।
अग्निरामस्तम्भशीतशूलोद्वेष्टकप्रशमनानाम्।
अजीर्णमुद्धार्याणाम्।
बालो मृदुभेषजार्हाणाम्।
वृद्धो याप्यानाम्।
गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानाम्।
सौमनस्यं गर्भधारणानाम्।
असौमनस्यं दुःखजनानाम्।
सन्निपातो दुश्चिकित्स्यानाम्।
आमविषमचिकित्स्यानाम्।
ज्वरः शीघ्ररोगाणाम्।
कुष्ठं दीर्घरोगाणाम्।
राजयक्ष्मा रोगसमूहानाम्।
प्रमेहोऽनुषङ्गिणाम्।
जलौकसोऽनुशस्त्राणाम्।
बस्तिर्यन्त्राणाम्।
हिमवानौषधभूमीनाम्।
सोम औषधीनाम्।
मरुभूमिरारोग्यदेशानाम्।
आनूपभूमिरहितदेशानाम्।
निर्देशकारित्वमातुरगुणानाम्।
अनिर्देशकारित्वमरिष्टानाम्।
भिषक्चिकित्साङ्गानाम्।
सिद्धिर्वैद्याङ्गानाम्।
नास्तिको वर्ज्यानाम्।
लौल्यं क्लेशकराणाम्।
आत्मवत्तोपकारिणाम्।
शास्त्रसहितस्तर्कः साधकानाम्।
दृष्टकर्मता निस्संशयकराणाम्।
असमर्थता भयंकराणाम्।
तद्विद्यसम्भाषा बुद्धिवर्द्धनानाम्।
आचार्यः शास्त्राधिगमहेतूनाम्।
आयुर्वेदोऽमृतानाम्।
सद्वैद्यद्वेषः प्राणत्यागहेतूनाम्।
सद्वचनमनुष्ठेयानाम्।
वायुः प्राणसंज्ञाप्रदानहेतूनाम्।
सर्वसन्यासः सुखानामिति।
तत्रोदकाग्निमृद्भृष्टलोष्टप्रसादतक्राभ्यासरक्तावसेकैरण्डतैलाभ्यासोष्ट्रीक्षीरमदनफलमद्याक्षेपैकरसगर्भिणीनामेकैकस्मात् समुदायाच्च निर्द्धारणम्।
पुष्करमूलादीनां तु समुदायादेवेति॥
श्लोक 5
भवति चात्र।
अग्र्याणां शतमुद्दिष्टं पञ्च पञ्चाशदुत्तरम्।
अलमेतद्विजानीयाद्धिताहितविनिश्चये॥
इति त्रयोदशोऽध्यायः।