अष्टाङ्गहृदयम्/निदानस्थानम् Adhaay 9

श्लोक 1

वस्ति-वस्ति-शिरो-मेढ्र-कटी-वृषण-पायवः ।
एक-संबन्धनाः प्रोक्ता गुदास्थि-विवराश्रयाः ॥ १ ॥

श्लोक 2

अधो-मुखो ऽपि वस्तिर् हि मूत्र-वाहि-सिरा-मुखैः ।
पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैर् अन्-आरतम् ॥ २ ॥

श्लोक 3

यैस् तैर् एव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम् ।
मूत्राघातान् प्रमेहांश् च कृच्छ्रान् मर्म-समाश्रयान् ॥ ३ ॥

श्लोक 4

वस्ति-वङ्क्षण-मेढ्रार्ति-युक्तो ऽल्पाल्पं मुहुर् मुहुः ।
मूत्रयेद् वात-जे कृच्छ्रे पैत्ते पीतं स-दाह-रुक् ॥ ४ ॥

श्लोक 5

रक्तं वा कफ-जे वस्ति-मेढ्र-गौरव-शोफ-वान् ।
स-पिच्छं स-विबन्धं च सर्वैः सर्वात्मकं मलैः ॥ ५ ॥

श्लोक 6

यदा वायुर् मुखं वस्तेर् आवृत्य परिशोषयेत् ।
मूत्रं स-पित्तं स-कफं स-शुक्रं वा तदा क्रमात् ॥ ६ ॥

श्लोक 7

संजायते ऽश्मरी घोरा पित्ताद् गोर् इव रोचना ।
श्लेष्माश्रया च सर्वा स्याद् अथास्याः पूर्व-लक्षणम् ॥ ७ ॥

श्लोक 8

वस्त्य्-आध्मानं तद्-आसन्न-देशेषु परितो ऽति-रुक् ।
मूत्रे च बस्त-गन्ध-त्वं मूत्र-कृच्छ्रं ज्वरो ऽ-रुचिः ॥ ८ ॥

श्लोक 9

मूत्रे बस्त-स-गन्ध-त्वं सामान्य-लिङ्गं रुङ् नाभि-सेवनी-वस्ति-मूर्धसु ।
विशीर्ण-धारं मूत्रं स्यात् तया मार्ग-निरोधने ॥ ९ ॥

श्लोक 10

तथा मार्ग-निरोधने तद्-व्यपायात् सुखं मेहेद् अच्छं गोमेदकोपमम् ।
तत्-संक्षोभात् क्षते सास्रम् आयासाच् चाति-रुग् भवेत् ॥ १० ॥

श्लोक 11

तत्र वाताद् भृशार्त्य्-आर्तो दन्तान् खादति वेपते ।
मृद्नाति मेहनं नाभिं पीडयत्य् अ-निशं क्वणन् ॥ ११ ॥

श्लोक 12

सानिलं मुञ्चति शकृन् मुहुर् मेहति बिन्दु-शः ।
श्यावा रूक्षाश्मरी चास्य स्याच् चिता कण्टकैर् इव ॥ १२ ॥

श्लोक 13

पित्तेन दह्यते वस्तिः पच्यमान इवोष्म-वान् ।
भल्लातकास्थि-संस्थाना रक्ता पीतासिताश्मरी ॥ १३ ॥

श्लोक 14

रक्त-पीतासिताश्मरी वस्तिर् निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ।
अश्मरी महती श्लक्ष्णा मधु-वर्णाथ-वा सिता ॥ १४ ॥

श्लोक 15

एता भवन्ति बालानां तेषाम् एव च भूयसा ।
आश्रयोपचयाल्प-त्वाद् ग्रहणाहरणे सुखाः ॥ १५ ॥

श्लोक 16

शुक्राश्मरी तु महतां जायते शुक्र-धारणात् ।
स्थानाच् च्युतम् अ-मुक्तं हि मुष्कयोर् अन्तरे ऽनिलः ॥ १६ ॥

श्लोक 17

शोषयत्य् उपसंगृह्य शुक्रं तच् छुष्कम् अश्मरी ।
वस्ति-रुक्-कृच्छ्र-मूत्र-त्व-मुष्क-श्वयथु-कारिणी ॥ १७ ॥

श्लोक 18

तस्याम् उत्पन्न-मात्रायां शुक्रम् एति विलीयते ।
पीडिते त्व् अवकाशे ऽस्मिन्न् अश्मर्य् एव च शर्करा ॥ १८ ॥

श्लोक 19

अणु-शो वायुना भिन्ना सा त्व् अस्मिन्न् अनुलोम-गे ।
निरेति सह मूत्रेण प्रतिलोमे विबध्यते ॥ १९ ॥

श्लोक 20

मूत्र-संधारिणः कुर्याद् रुद्ध्वा वस्तेर् मुखं मरुत् ।
मूत्र-सङ्गं रुजं कण्डूं कदा-चिच् च स्व-धामतः ॥ २० ॥

श्लोक 21

प्रच्याव्य वस्तिम् उद्वृत्तं गर्भाभं स्थूल-विप्लुतम् ।
करोति तत्र रुग्-दाह-स्पन्दनोद्वेष्टनानि च ॥ २१ ॥

श्लोक 22

बिन्दु-शश् च प्रवर्तेत मूत्रं वस्तौ तु पीडिते ।
धारया द्वि-विधो ऽप्य् एष वात-वस्तिर् इति स्मृतः ॥ २२ ॥

श्लोक 23

दुस्-तरो दुस्-तर-तरो द्वितीयः प्रबलानिलः ।
शकृन्-मार्गस्य वस्तेश् च वायुर् अन्तरम् आश्रितः ॥ २३ ॥

श्लोक 24

अष्ठीलाभं घनं ग्रन्थिं करोत्य् अ-चलम् उन्नतम् ।
वाताष्ठीलेति साध्मान-विण्-मूत्रानिल-सङ्ग-कृत् ॥ २४ ॥

श्लोक 25

वि-गुणः कुण्डली-भूतो वस्तौ तीव्र-व्यथो ऽनिलः ।
आविध्य मूत्रं भ्रमति स-स्तम्भोद्वेष्ट-गौरवः ॥ २५ ॥

श्लोक 26

आविश्य मूत्रं भ्रमति मूत्रम् अल्पाल्पम् अथ-वा विमुञ्चति शकृत् सृजन् ।
वात-कुण्डलिकेत्य् एषा मूत्रं तु विधृतं चिरम् ॥ २६ ॥

श्लोक 27

न निरेति विबद्धं वा मूत्रातीतं तद् अल्प-रुक् ।
विधारणात् प्रतिहतं वातोदावर्तितं यदा ॥ २७ ॥

श्लोक 28

नाभेर् अधस्-ताद् उदरं मूत्रम् आपूरयेत् तदा ।
कुर्यात् तीव्र-रुग् आध्मानम् अ-पक्तिं मल-संग्रहम् ॥ २८ ॥

श्लोक 29

तन् मूत्र-जठरं छिद्र-वैगुण्येनानिलेन वा ।
आक्षिप्तम् अल्पं मूत्रं तद् वस्तौ नाले ऽथ-वा मणौ ॥ २९ ॥

श्लोक 30

आक्षिप्तम् अल्पं मूत्रस्य स्थित्वा स्रवेच् छनैः पश्चात् स-रुजं वाथ नी-रुजम् ।
मूत्रोत्सङ्गः स विच्छिन्न-तच्-छेष-गुरु-शेफसः ॥ ३० ॥

श्लोक 31

स-रुजं वाथ-वा-रुजम् मूत्रोत्सङ्गः स विच्छिन्नस् मूत्रोत्सङ्गः स विच्छिन्नं तच्-छेष-गुरु-शेफसः अन्तर् वस्ति-मुखे वृत्तः स्थिरो ऽल्पः सहसा भवेत् ।
अश्मरी-तुल्य-रुग् ग्रन्थिर् मूत्र-ग्रन्थिः स उच्यते ॥ ३१ ॥

श्लोक 32

मूत्रितस्य स्त्रियं यातो वायुना शुक्रम् उद्धतम् ।
स्थानाच् च्युतं मूत्रयतः प्राक् पश्चाद् वा प्रवर्तते ॥ ३२ ॥

श्लोक 33

भस्मोदक-प्रतीकाशं मूत्र-शुक्रं तद् उच्यते ।
रूक्ष-दुर्-बलयोर् वाताद् उदावर्तं शकृद् यदा ॥ ३३ ॥

श्लोक 34

उदावृत्तं शकृद् यदा मूत्र-स्रोतो ऽनुपर्येति संसृष्टं शकृता तदा ।
मूत्रं विट्-तुल्य-गन्धं स्याद् विड्-विघातं तम् आदिशेत् ॥ ३४ ॥

श्लोक 35

पित्तं व्यायाम-तीक्ष्णोष्ण-भोजनाध्वातपादिभिः ।
प्रवृद्धं वायुना क्षिप्तं वस्त्य्-उपस्थार्ति-दाह-वत् ॥ ३५ ॥

श्लोक 36

मूत्रं प्रवर्तयेत् पीतं स-रक्तं रक्तम् एव वा ।
उष्णं पुनः पुनः कृच्छ्राद् उष्ण-वातं वदन्ति तम् ॥ ३६ ॥

श्लोक 37

रूक्षस्य क्लान्त-देहस्य वस्ति-स्थौ पित्त-मारुतौ ।
मूत्र-क्षयं स-रुग्-दाहं जनयेतां तद्-आह्वयम् ॥ ३७ ॥

श्लोक 38

पित्तं कफो द्वाव् अपि वा संहन्येते ऽनिलेन चेत् ।
कृच्छ्रान् मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥ ३८ ॥

श्लोक 39

स-दाहं रोचना-शङ्ख-चूर्ण-वर्णं भवेच् च तत् ।
शुष्कं समस्त-वर्णं वा मूत्र-सादं वदन्ति तम् ॥ ३९ ॥

श्लोक 40

इति विस्तरतः प्रोक्ता रोगा मूत्रा-प्रवृत्ति-जाः ।
निदान-लक्षणैर् ऊर्ध्वं वक्ष्यन्ते ऽति-प्रवृत्ति-जाः ॥ ४० ॥