श्लोक 1
तिमिरं काच-तां याति काचो ऽप्य् आन्ध्यम् उपेक्षया ।
नेत्र-रोगेष्व् अतो घोरं तिमिरं साधयेद् द्रुतम् ॥ १ ॥
श्लोक 2
तुलां पचेत जीवन्त्या द्रोणे ऽपां पाद-शेषिते ।
तत्-क्वाथे द्वि-गुण-क्षीरं घृत-प्रस्थं विपाचयेत् ॥ २ ॥
श्लोक 3
तत्-क्वाथे द्वि-गुणं क्षीरं प्रपौण्डरीक-काकोली-पिप्पली-लोध्र-सैन्धवैः ।
शताह्वा-मधुक-द्राक्षा-सिता-दारु-फल-त्रयैः ॥ ३ ॥
श्लोक 4
कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् ।
द्राक्षा-चन्दन-मञ्जिष्ठा-काकोली-द्वय-जीवकैः ॥ ४ ॥
श्लोक 5
तिमिराणां हरं परम् सिता-शतावरी-मेदा-पुण्ड्राह्व-मधुकोत्पलैः ।
पचेज् जीर्ण-घृत-प्रस्थं सम-क्षीरं पिचून्मितैः ॥ ५ ॥
श्लोक 6
पचेज् जीर्णं घृत-प्रस्थं हन्ति तत् काच-तिमिर-रक्त-राजी-शिरो-रुजः ।
पटोल-निम्ब-कटुका-दार्वी-सेव्य-वरा-वृषम् ॥ ६ ॥
श्लोक 7
स-धन्वयास-त्रायन्ती-पर्पटं पालिकं पृथक् ।
प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि ॥ ७ ॥
श्लोक 8
तद्-आढके ऽर्ध-पलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ।
मुस्त-भूनिम्ब-यष्ट्य्-आह्व-कुटजोदीच्य-चन्दनैः ॥ ८ ॥
श्लोक 9
तद्-आढके ऽर्ध-पलिकैर् घृत-प्रस्थं विपाचयेत् स-पिप्पलीकैस् तत् सर्पिर् घ्राण-कर्णास्य-रोग-जित् ।
विद्रधि-ज्वर-दुष्टारुर्-विसर्पापचि-कुष्ठ-नुत् ॥ ९ ॥
श्लोक 10
स-व्योष-चव्यैस् तत् सर्पिर् घ्राण-कर्णाक्षि-रोग-जित् विद्रधि-ज्वर-दुष्टास्र- विशेषाच् छुक्र-तिमिर-नक्तान्ध्योष्णाम्ल-दाह-हृत् ।
त्रि-फलाष्ट-पलं क्वाथ्यं पाद-शेषं जलाढके ॥ १० ॥
श्लोक 11
नक्तान्ध्योष्णाम्ल-दाह-नुत् पाद-शेषे जलाढके तेन तुल्य-पयस्केन त्रि-फला-पल-कल्क-वान् ।
अर्ध-प्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा ॥ ११ ॥
श्लोक 12
युक्तं पिबेत् तत् तिमिरी तद्-युक्तं वा वरा-रसम् ।
यष्टीमधु-द्वि-काकोली-व्याघ्री-कृष्णामृतोत्पलैः ॥ १२ ॥
श्लोक 13
पालिकैः स-सिता-द्राक्षैर् घृत-प्रस्थं पचेत् समैः ।
अजा-क्षीर-वरा-वसा-मार्कव-स्व-रसैः पृथक् ॥ १३ ॥
श्लोक 14
महा-त्रैफलम् इत्य् एतत् परं दृष्टि-विकार-जित् ।
त्रैफलेनाथ हविषा लिहानस् त्रि-फलां निशि ॥ १४ ॥
श्लोक 15
परं दृष्टि-विकार-नुत् यष्टीमधुक-संयुक्तां मधुना च परिप्लुताम् ।
मासम् एकं हिताहारः पिबन्न् आमलकोदकम् ॥ १५ ॥
श्लोक 16
सौपर्णं लभते चक्षुर् इत्य् आह भग-वान् निमिः ।
ताप्यायो-हेम-यष्ट्य्-आह्व-सिता-जीर्णाज्य-माक्षिकैः ॥ १६ ॥
श्लोक 17
संयोजिता यथा-कामं तिमिर-घ्नी वरा वरा ।
स-घृतं वा वरा-क्वाथं शीलयेत् तिमिरामयी ॥ १७ ॥
श्लोक 18
अपूप-सूप-सक्तून् वा त्रि-फला-चूर्ण-संयुतान् ।
पायसं वा वरा-युक्तं शीतं स-मधु-शर्करम् ॥ १८ ॥
श्लोक 19
अपूप-तक्र-सक्तून् वा प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् ।
मृद्वीका-शर्करा-क्षौद्रैः सततं तिमिरातुरः ॥ १९ ॥
श्लोक 20
प्रातर् भुक्तस्य वा पूर्वम् स्रोतो-जांशांश् चतुः-षष्टिं ताम्रायो-रूप्य-काञ्चनैः ।
युक्तान् प्रत्य्-एकम् एकांशैर् अन्ध-मूषोदर-स्थितान् ॥ २० ॥
श्लोक 21
ध्मापयित्वा समावृत्तं ततस् तच् च निषेचयेत् ।
रस-स्कन्ध-कषायेषु सप्त-कृत्वः पृथक् पृथक् ॥ २१ ॥
श्लोक 22
वैडूर्य-मुक्ता-शङ्खानां त्रिभिर् भागैर् युतं ततः ।
चूर्णाञ्जनं प्रयुञ्जीत तत् सर्व-तिमिरापहम् ॥ २२ ॥
श्लोक 23
तत् सर्वं तिमिरापहम् मांसी-त्रि-जातकायः-कुङ्कुम-नीलोत्पलाभया-तुत्थैः ।
सित-काच-शङ्ख-फेनक-मरिचाञ्जन-पिप्पली-मधुकैः ॥ २३ ॥
श्लोक 24
चन्द्रे ऽश्विनी-स-नाथे सु-चूर्णितैर् अञ्जयेद् युगलं अक्ष्णोः ।
तिमिरार्म-रक्त-राजी-कण्डू-काचादि-शमम् इच्छन् ॥ २४ ॥
श्लोक 25
मरिच-वर-लवण-भागौ भागौ द्वौ कण-समुद्र-फेनाभ्याम् ।
सौवीर-भाग-नवकं चित्रायां चूर्णितं कफामय-जित् ॥ २५ ॥
श्लोक
चित्रा-संचूर्णितं कफामय-जित् मनोह्वा-तुत्थ-कस्तूरी-मांसी-मलय-रोचनाः ।
दश-कर्पूर-संयुक्तम् अशीति-गुणम् अञ्जनम् ॥ २५+(१) ॥
श्लोक
च्व् दर-कर्पूर-संयुक्तम् पिष्टं चित्राश्विनी-पुष्ये षड्-विधे तिमिरे हितम् ।
प्रसादनं च दृष्टेः स्याच् चक्षुषेणावभाषितम् ॥ २५+(२) ॥
श्लोक 26
द्राक्षा-मृणाली-स्व-रसे क्षीर-मद्य-वसासु च ।
पृथक् दिव्याप्सु स्रोतो-जं सप्त-कृत्वो निषेचयेत् ॥ २६ ॥
श्लोक 27
तच् चूर्णितं स्थितं शङ्खे दृक्-प्रसादनम् अञ्जनम् ।
शस्तं सर्वाक्षि-रोगेषु विदेह-पति-निर्मितम् ॥ २७ ॥
श्लोक 28
तच् चूर्णितं घृतं शङ्खे निर्दग्धं बादराङ्गारैस् तुत्थं चेत्थं निषेचितम् ।
क्रमाद् अजा-पयः-सर्पिः-क्षौद्रे तस्मात् पल-द्वयम् ॥ २८ ॥
श्लोक 29
तुत्थं चैवं निषेचितम् क्रमाच् छाग-पयः-सर्पिः- कार्षिकैस् ताप्य-मरिच-स्रोतो-ज-कटुका-नतैः ।
पटु-लोध्र-शिला-पथ्या-कणैलाञ्जन-फेनकैः ॥ २९ ॥
श्लोक 30
युक्तं पलेन यष्ट्याश् च मूषान्तर्-ध्मात-चूर्णितम् ।
हन्ति काचार्म-नक्तान्ध्य-रक्त-राजीः सु-शीलितः ॥ ३० ॥
श्लोक 31
चूर्णो विशेषात् तिमिरं भास्-करो भास्-करो यथा ।
त्रिंशद्-भागा भुजङ्गस्य गन्ध-पाषाण-पञ्चकम् ॥ ३१ ॥
श्लोक 32
शुल्ब-तालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् ।
अन्ध-मूषी-कृतं ध्मातं पक्वं वि-मलम् अञ्जनम् ॥ ३२ ॥
श्लोक 33
शुल्ब-तारकयोर् द्वौ द्वौ अन्ध-मूषा-गतं ध्मातं तिमिरान्त-करं लोके द्वितीय इव भास्-करः ॥ ३३अब् ॥
तिमिरापहरं लोके गो-मूत्रे छगण-रसे ऽम्ल-काञ्जिके च स्त्री-स्तन्ये ॥ ३३च् ॥
गो-मूत्रे छगल-रसे ऽम्ल-काञ्जिके च हविषि विषे च माक्षिके च ॥ ३३द् ॥
यत् तुत्थं ज्वलितम् अनेक-शो निषिक्तं ॥ ३३ए ॥
तत् कुर्याद् गरुड-समं नरस्य चक्षुः ॥ ३३f ॥
श्लोक
तुत्थं स-काशं कनकं स-फलं शङ्ख-शिला-गैरिकम् अञ्जनं च ।
नरः कपाल-सहि-कूङ्कुडाण्डं सप्त-द्वि-सप्त-त्रि-समयो गतः ॥ ३३+१ ॥
श्लोक
भृङ्गोद्भव-स्व-रस-भावितम् आज-दुग्धे मूत्रे गवाम् पयसि च त्रि-फला-कषाये ।
द्राक्षा-रसे च परिशुद्धम् इति क्रमेण सौवीरम् अञ्जनम् इदं तिमिरं निहन्ति ॥ ३३+२ ॥
श्लोक 34
श्रेष्ठा-जलं भृङ्ग-रसं स-विषाज्यम् अजा-पयः ।
यष्टी-रसं च यत् सीसं सप्त-कृत्वः पृथक् पृथक् ॥ ३४ ॥
श्लोक 35
श्रेष्ठा-रसं भृङ्ग-रसं तप्तं तप्तं पायितं तच्-छलाका नेत्रे युक्ता साञ्जनान्-अञ्जना वा ।
तैमिर्यार्म-स्राव-पैच्छिल्य-पैल्लं कण्डूं जाड्यं रक्त-राजीं च हन्ति ॥ ३५ ॥
श्लोक 36
रसेन्द्र-भुजगौ तुल्यौ तयोस् तुल्यम् अथाञ्जनम् ।
ईषत्-कर्पूर-संयुक्तम् अञ्जनं तिमिरापहम् ॥ ३६ ॥
श्लोक 37
ईषत्-कर्पूर-सहितम् अञ्जनं तिमिरे वरम् अञ्जनं नयनामृतम् यो गृध्रस् तरुण-रवि-प्रकाश-गल्लस् तस्यास्यं समय-मृतस्य गो-शकृद्भिः ।
निर्दग्धं सम-घृतम् अञ्जनं च पेष्यं योगो ऽयं नयन-बलं करोति गार्ध्रम् ॥ ३७ ॥
श्लोक 38
कृष्ण-सर्प-वदने स-हविष्कं दग्धम् अञ्जन-निःसृत-धूमम् ।
चूर्णितं नलद-पत्त्र-विमिश्रं भिन्न-तारम् अपि रक्षति चक्षुः ॥ ३८ ॥
श्लोक
दग्धम् अञ्जन-निर्गत-धूमम् योजितं नलद-पत्त्र-विमिश्रं नागाञ्जनाश्माल-शिलार्क-वङ्गैस् त्रिंशद्-द्वि-पञ्च-द्वयम् अ-द्विकैकैः ।
अन्ध-मूषी-कृतैश् छाग-पयो-निषिक्तैर् दृष्टेर् इदं भास्-करम् अञ्जनं स्यात् ॥ ३८+१ ॥
श्लोक
स्रोतो-ऽश्म-वीरं … वेष्ट्याजमोदा-वट-च्छदैः ।
षट्कं तिमिर-जित् क्लिष्टं मृल्-लिप्तं गो-मयाग्निना ॥ ३८+२ ॥
श्लोक
ताम्रायस्-कान्त-गन्धाह्वा-तार्क्षा यत् सु-च्छलं रजः ।
लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टि-रोग-जित् ॥ ३८+३ ॥
श्लोक 39
तार्क्ष्या यत् सु-च्छलं रजः कृष्ण-सर्पं मृतं न्यस्य चतुरश् चापि वृश्चिकान् ।
क्षीर-कुम्भे त्रि-सप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥ ३९ ॥
श्लोक 40
क्लेदयित्वानु मन्थयेत् क्लेदयित्वाथ मन्थयेत् तत्र यन् नव-नीतं स्यात् पुष्णीयात् तेन कुक्कुटम् ।
अन्धस् तस्य पुऋईषेण प्रेक्षते ध्रुवम् अञ्जनात् ॥ ४० ॥
श्लोक 41
कृष्ण-सर्प-वसा शङ्खः कतकात् फलम् अञ्जनम् ।
रस-क्रियेयम् अ-चिराद् अन्धानां दर्शन-प्रदा ॥ ४१ ॥
श्लोक 42
मरिचानि दशार्ध-पिचुस् ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः ।
क्षीरार्द्र-दग्धम् अञ्जनम् अ-प्रतिसाराख्यम् उत्तमं तिमिरे ॥ ४२ ॥
श्लोक 43
मरिचानि दश द्वि-पलं अक्ष-बीज-मरिचामलक-त्वक्-तुत्थ-यष्टिमधुकैर् जल-पिष्टैः ।
छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्य् अ-चिरेण ॥ ४३ ॥
श्लोक 44
मरिचामलक-जलोद्भव-तुत्थाञ्जन-ताप्य-धातुभिः क्रम-वृद्धैः ।
षण्-माक्षिक इति योगस् तिमिरार्म-क्लेद-काच-कण्डू-हन्ता ॥ ४४ ॥
श्लोक 45
तिमिरार्म-क्लेद-काच-कण्डू-हा तिमिरार्म-क्लेद-काच-कण्डू-घ्नः रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतो-ऽञ्जनं ताम्रम् अयः स-शङ्खं ।
कु-चन्दनं लोहित-गैरिकं च चूर्णाञ्जनं सर्व-दृग्-आमय-घ्नम् ॥ ४५ ॥
श्लोक 46
तिल-तैलम् अक्ष-तैलं भृङ्ग-स्व-रसो ऽसनाच् च निर्यूहः ।
आयस-पात्र-विपक्वं करोति दृष्टेर् बलं नस्यम् ॥ ४६ ॥
श्लोक 47
करोति दृष्टेर् बलं नस्यात् दोषानुरोधेन च नैक-शस् तं स्नेहास्र-विस्रावण-रेक-नस्यैः ।
उपाचरेद् अञ्जन-मूर्ध-वस्ति-वस्ति-क्रिया-तर्पण-लेप-सेकैः ॥ ४७ ॥
श्लोक 48
सामान्यं साधनम् इदं प्रति-दोषम् अतः शृणु ॥ ४८अब् ॥
श्लोक 49
वात-जे तिमिरे तत्र दश-मूलाम्भसा घृतम् ।
क्षीरे चतुर्-गुणे श्रेष्ठा-कल्क-पक्वं पिबेत् ततः ॥ ४९ ॥