श्लोक 1
आमाशयोत्क्लेश-भवाः प्रायश् छर्द्यो हितं ततः ।
लङ्घनं प्राग् ऋते वायोर् वमनं तत्र योजयेत् ॥ १ ॥
श्लोक 2
प्रायश् छर्द्यो हितं मतम् बलिनो बहु-दोषस्य वमतः प्रततं बहु ।
ततो विरेकं क्रम-शो हृद्यं मद्यैः फलाम्बुभिः ॥ २ ॥
श्लोक 3
क्षीरैर् वा सह स ह्य् ऊर्ध्वं गतं दोषं नयत्य् अधः ।
शमनं चौषधं रूक्ष-दुर्-बलस्य तद् एव तु ॥ ३ ॥
श्लोक 4
परिशुष्कं प्रियं सात्म्यम् अन्नं लघु च शस्यते ।
उपवासस् तथा यूषा रसाः काम्बलिकाः खलाः ॥ ४ ॥
श्लोक 5
शाकानि लेहा भोज्यानि राग-षाडव-पानकाः ।
भक्ष्याः शुष्का विचित्राश् च फलानि स्नान-घर्षणम् ॥ ५ ॥
श्लोक 6
गन्धाः सु-गन्धयो गन्ध-फल-पुष्पान्न-पान-जाः ।
भुक्त-मात्रस्य सहसा मुखे शीताम्बु-सेचनम् ॥ ६ ॥
श्लोक 7
हन्ति मारुत-जां छर्दिं सर्पिः पीतं स-सैन्धवम् ।
किञ्-चिद्-उष्णं विशेषेण स-कास-हृदय-द्रवाम् ॥ ७ ॥
श्लोक 8
व्योष-त्रि-लवणाढ्यं वा सिद्धं वा दाडिमाम्बुना ।
स-शुण्ठी-दधि-धान्येन शृतं तुल्याम्बु वा पयः ॥ ८ ॥
श्लोक 9
शृतं तुल्याम्बुना पयः पीतं तुल्याम्बुना पयः व्यक्त-सैन्धव-सर्पिर् वा फलाम्लो वैष्किरो रसः ।
स्निग्धं च भोजनं शुण्ठी-दधि-दाडिम-साधितम् ॥ ९ ॥
श्लोक 10
कोष्णं स-लवणं चात्र हितं स्नेह-विरेचनम् ।
पित्त-जायां विरेकार्थं द्राक्षेक्षु-स्व-रसैस् त्रिवृत् ॥ १० ॥
श्लोक 11
सर्पिर् वा तैल्वकं योज्यं वृद्धं च श्लेष्म-धाम-गम् ।
ऊर्ध्वम् एव हरेत् पित्तं स्वादु-तिक्तैर् विशुद्धि-मान् ॥ ११ ॥
श्लोक 12
पिबेन् मन्थं यवागूं वा लाजैः स-मधु-शर्कराम् ।
मुद्ग-जाङ्गल-जैर् अद्याद् व्यञ्जनैः शालि-षष्टिकम् ॥ १२ ॥
श्लोक 13
लाजैः स-मधु-शर्करैः मृद्-भृष्ट-लोष्ट-प्रभवं सु-शीतं सलिलं पिबेत् ।
मुद्गोशीर-कणा-धान्यैः सह वा संस्थितं निशाम् ॥ १३ ॥
श्लोक 14
द्राक्षा-रसं रसं वेक्षोर् गुडूच्य्-अम्बु पयो ऽपि वा ।
जम्ब्व्-आम्र-पल्लवोशीर-वट-शुङ्गावरोह-जः ॥ १४ ॥
श्लोक 15
द्राक्षा-रसं रसं चेक्षोर् वट-शृङ्गावरोह-जः क्वाथः क्षौद्र-युतः पीतः शीतो वा विनियच्छति ।
छर्दिं ज्वरम् अतीसारं मूर्छां तृष्णां च दुर्-जयाम् ॥ १५ ॥
श्लोक 16
धात्री-रसेन वा शीतं पिबेन् मुद्ग-दलाम्बु वा ।
कोल-मज्ज-सिता-लाजा-मक्षिका-विट्-कणाञ्जनम् ॥ १६ ॥
श्लोक 17
कोल-मज्ज-सिता-लाक्षा-मक्षिका-विट्-रसाञ्जनम् लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा ।
कफ-जायां वमेन् निम्ब-कृष्णा-पिण्डीत-सर्षपैः ॥ १७ ॥
श्लोक 18
युक्तेन कोष्ण-तोयेन दुर्-बलं चोपवासयेत् ।
आरग्वधादि-निर्यूहं शीतं क्षौद्र-युतं पिबेत् ॥ १८ ॥
श्लोक 19
आरग्वधादेर् निर्यूहं मन्थान् यवैर् वा बहु-शश् छर्दि-घ्नौषध-भावितैः ।
कफ-घ्नम् अन्नं हृद्यं च रागाः सार्जक-भूस्तृणाः ॥ १९ ॥
श्लोक 20
लीढं मनःशिला-कृष्णा-मरिचं बीजपूरकात् ।
स्व-रसेन कपित्थस्य स-क्षौद्रेण वमिं जयेत् ॥ २० ॥
श्लोक 21
खादेत् कपित्थं स-व्योषं मधुना वा दुरालभाम् ।
लिह्यान् मरिच-चोचैला-गो-शकृद्-रस-माक्षिकम् ॥ २१ ॥
श्लोक 22
अनुकूलोपचारेण याति द्विष्टार्थ-जा शमम् ।
कृमि-जा कृमि-हृद्-रोग-गदितैश् च भिषग्-जितैः ॥ २२ ॥
श्लोक
यथा-स्वं परिशेषाश् च तत्-कृताश् च तथामयाः ॥ २२अब् ॥
श्लोक 23
छर्दि-प्रसङ्गेन हि मातरिश्वा धातु-क्षयात् कोपम् उपैत्य् अवश्यम् ।
कुर्याद् अतो ऽस्मिन् वमनाति-योग-प्रोक्तं विधिं स्तम्भन-बृंहणीयम् ॥ २३ ॥
श्लोक 24
कुर्याद् अतो ऽस्मिन् वमनाति-योगे प्रोक्तं विधिं स्तम्भन-बृंहणीयम् सर्पिर्-गुडा मांस-रसा घृतानि कल्याणक-त्र्य्-ऊषण-जीवनानि ।
पयांसि पथ्योपहितानि लेहाश् छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ २४ ॥
श्लोक
सर्पिर् गुडो मांस-रसा घृतानि इति छर्दि-चिकित्सितम् अथ हृद्-रोग-चिकित्सितम् ॥ २४+१ ॥
श्लोक 25
हृद्-रोगे वात-जे तैलं मस्तु-सौवीर-तक्र-वत् ॥ २५ ॥
श्लोक 26
तैलं च लवणैः सिद्धं स-मूत्राम्लं तथा-गुणम् ॥ २६ ॥
श्लोक 26
पिबेत् सुखोष्णं स-विडं गुल्मानाहार्ति-जिच् च तत् ।
तैलं च लवणैः सिद्धं स-मूत्राम्लं तथा-गुणम् ॥ २६ ॥
श्लोक 27
बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम् ।
कुलत्थान् पञ्च-मूलं च पक्त्वा तस्मिन् पचेज् जले ॥ २७ ॥
श्लोक 28
तैलं तन् नावने पाने वस्तौ च विनियोजयेत् ।
शुण्ठी-वयःस्था-लवण-कायस्था-हिङ्गु-पौष्करैः ॥ २८ ॥
श्लोक 29
शुण्ठी-कयस्था-लवण- -वयःस्था-हिङ्गु-पौष्करैः पथ्यया च शृतं पार्श्व-हृद्-रुजा-गुल्म-जिद् घृतम् ।
सौवर्चलस्य द्वि-पले पथ्या-पञ्चाशद्-अन्विते ॥ २९ ॥
श्लोक 30
घृतस्य साधितः प्रस्थो हृद्-रोग-श्वास-गुल्म-जित् ।
दाडिमं कृष्ण-लवणं शुण्ठी-हिङ्ग्व्-अम्ल-वेतसम् ॥ ३० ॥
श्लोक 31
हृद्-रोग-श्वास-गुल्म-हृत् शुण्ठी हिङ्ग्व् अम्ल-वेतसः अपतन्त्रक-हृद्-रोग-श्वास-घ्नं चूर्णम् उत्तमम् ।
पुष्कराह्व-शठी-शुण्ठी-बीजपूर-जटाभयाः ॥ ३१ ॥
श्लोक 32
पीताः कल्की-कृताः क्षार-घृताम्ल-लवणैर् युताः ।
विकर्तिका-शूल-हराः क्वाथः कोष्णश् च तद्-गुणः ॥ ३२ ॥
श्लोक 33
यवानी-लवण-क्षार-वचाजाज्य्-औषधैः कृतः ।
स-पूतिदारु-बीजाह्व-पलाश-शठि-पौष्करैः ॥ ३३ ॥
श्लोक
स पूतिदारु-बीजाह्व-विजया-शठि-पौष्करैः यव-क्षारो यवानी च पिबेद् उष्णेन वारिणा ।
एतेन वात-जं शूलं गुल्मं चैव चिरोत्थितम् ॥ ३३+(१) ॥
भिद्यते सप्त-रात्रेण पवनेन यथा घनः ॥ ३३+(१ऊ)अब् ॥
श्लोक 34
पञ्च-कोल-शठी-पथ्या-गुड-बीजाह्व-पौष्करम् ।
वारुणी-कल्कितं भृष्टं यमके लवणान्वितम् ॥ ३४ ॥
श्लोक 35
हृत्-पार्श्व-योनि-शूलेषु खादेद् गुल्मोदरेषु च ।
स्निग्धाश् चेह हिताः स्वेदाः संस्कृतानि घृतानि च ॥ ३५ ॥
श्लोक 36
संस्कृतानि घृतानि तु लघुना पञ्च-मूलेन शुण्ठ्या वा साधितं जलम् ।
वारुणी-दधि-मण्डं वा धान्याम्लं वा पिबेत् तृषि ॥ ३६ ॥
श्लोक 37
वारुणीं दधि-मण्डं वा सायाम-स्तम्भ-शूलामे हृदि मारुत-दूषिते ।
क्रियैषा स-द्रवायाम-प्रमोहे तु हिता रसाः ॥ ३७ ॥
श्लोक 38
स्नेहाढ्यास् तित्तिरि-क्रौञ्च-शिखि-वर्तक-दक्ष-जाः ।
बला-तैलं स-हृद्-रोगः पिबेद् वा सु-कुमारकम् ॥ ३८ ॥
श्लोक 39
स्नेहाद्यास् तित्तिरि-क्रौञ्च- यष्ट्य्-आह्व-शत-पाकं वा महा-स्नेहं तथोत्तमम् ।
रास्ना-जीवक-जीवन्ती-बला-व्याघ्री-पुनर्नवैः ॥ ३९ ॥
श्लोक 40
भार्गी-स्थिरा-वचा-व्योषैर् महा-स्नेहं विपाचयेत् ।
दधि-पादं तथाम्लैश् च लाभतः स निषेवितः ॥ ४० ॥
श्लोक 41
तर्पणो बृंहणो बल्यो वात-हृद्-रोग-नाशनः ।
दीप्ते ऽग्नौ स-द्रवायामे हृद्-रोगे वातिके हितम् ॥ ४१ ॥
श्लोक 42
क्षीरं दधि गुडः सर्पिर् औदकानूपम् आमिषम् ।
एतान्य् एव च वर्ज्यानि हृद्-रोगेषु चतुर्ष्व् अपि ॥ ४२ ॥
श्लोक 43
शेषेषु स्तम्भ-जाड्याम-संयुक्ते ऽपि च वातिके ।
कफानुबन्धे तस्मिंस् तु रूक्षोष्णाम् आचरेत् क्रियाम् ॥ ४३ ॥
श्लोक 44
पैत्ते द्राक्षेक्षु-निर्यास-सिता-क्षौद्र-परूषकैः ।
युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्त-हा ॥ ४४ ॥
श्लोक 45
युक्तो विरेचो हृद्यः स्यात् क्षत-पित्त-ज्वरोक्तं च बाह्यान्तः परिमार्जनम् ।
कट्वी-मधुक-कल्कं च पिबेत् स-सितम् अम्भसा ॥ ४५ ॥
श्लोक 46
श्रेयसी-शर्करा-द्राक्षा-जीवकर्षभकोत्पलैः ।
बला-खर्जूर-काकोली-मेदा-युग्मैश् च साधितम् ॥ ४६ ॥
श्लोक 47
स-क्षीरं माहिषं सर्पिः पित्त-हृद्-रोग-नाशनम् ।
प्रपौण्डरीक-मधुक-बिस-ग्रन्थि-कसेरुकाः ॥ ४७ ॥
श्लोक 48
स-शुण्ठी-शैवलास् ताभिः स-क्षीरं विपचेद् घृतम् ।
शीतं स-मधु तच् चेष्टं स्वादु-वर्ग-कृतं च यत् ॥ ४८ ॥
श्लोक 49
वस्तिं च दद्यात् स-क्षौद्रं तैलं मधुक-साधितम् ।
कफोद्भवे वमेत् स्विन्नः पिचुमन्द-वचाम्भसा ॥ ४९ ॥
श्लोक 50
वस्तिं च दद्यात् स-क्षौद्र-तैलं मधुक-साधितम् पिचुमन्द-वचाम्बुना कुलत्थ-धन्वोत्थ-रस-तीक्ष्ण-मद्य-यवाशनः ।
पिबेच् चूर्णं वचा-हिङ्गु-लवण-द्वय-नागरात् ॥ ५० ॥
श्लोक 51
सैला-यवानक-कणा-यव-क्षारात् सुखाम्बुना ।
फल-धान्याम्ल-कौलत्थ-यूष-मूत्रासवैस् तथा ॥ ५१ ॥
श्लोक 52
सैला-यवानिक-कणा- पुष्कराह्वाभया-शुण्ठी-शठी-रास्ना-वचा-कणात् ।
क्वाथं तथाभया-शुण्ठी-माद्री-पीतद्रु-कट्फलात् ॥ ५२ ॥
श्लोक 53
शठी-रास्ना-वचा-कणा-क्वाथं तथाभया-शुण्ठी- क्वाथे रोहीतकाश्वत्थ-खदिरोदुम्बरार्जुने ।
स-पलाश-वटे व्योष-त्रिवृच्-चूर्णान्विते कृतः ॥ ५३ ॥
श्लोक 54
सुखोदकानु-पानश् च लेहः कफ-विकार-हा ।
श्लेष्म-गुल्मोदिताज्यानि क्षारांश् च विविधान् पिबेत् ॥ ५४ ॥
श्लोक 55
सुखोदकानु-पानस्य प्रयोजयेच् छिलाह्वं वा ब्राह्मं वात्र रसायनम् ।
तथामलक-लेहं वा प्राशं वागस्त्य-निर्मितम् ॥ ५५ ॥
श्लोक 56
ब्राह्मं चात्र रसायनम् प्राश्यं वागस्त्य-निर्मितम् प्राश्यं चागस्त्य-निर्मितम् स्याच् छूलं यस्य भुक्ते ऽति जीर्यत्य् अल्पं जरां गते ।
शाम्येत् स कुष्ठ-कृमिजिल्-लवण-द्वय-तिल्वकैः ॥ ५६ ॥
श्लोक 57
स्याच् छूलं यस्य भुक्ते ऽन्ने स-देवदार्व्-अतिविषैश् चूर्णम् उष्णाम्बुना पिबेत् ।
यस्य जीर्णे ऽधिकं स्नेहैः स विरेच्यः फलैः पुनः ॥ ५७ ॥
श्लोक 58
जीर्यत्य् अन्ने तथा मूलैस् तीक्ष्णैः शूले सदाधिके ।
प्रायो ऽनिलो रुद्ध-गतिः कुप्यत्य् आमाशये गतः ॥ ५८ ॥
श्लोक 59
कुप्यत्य् आमाशये ततः कुप्यत्य् आमाशये यतः तस्यानुलोमनं कार्यं शुद्धि-लङ्घन-पाचनैः ।
कृमि-घ्नम् औषधं सर्वं कृमि-जे हृदयामये ॥ ५९ ॥
श्लोक 60
कृमि-जे च हृद्-आमये तृष्णासु वात-पित्त-घ्नो विधिः प्रायेण शस्यते ।
सर्वासु शीतो बाह्यान्तस् तथा शमन-शोधनः ॥ ६० ॥
श्लोक 61
विधिः प्रायेण युज्यते तथा शमन-शोधनम् दिव्याम्बु शीतं स-क्षौद्रं तद्-वद् भौमं च तद्-गुणम् ।
निर्वापितं तप्त-लोष्ट-कपाल-सिकतादिभिः ॥ ६१ ॥
श्लोक 62
स-शर्करं वा क्वथितं पञ्च-मूलेन वा जलम् ।
दर्भ-पूर्वेण मन्थश् च प्रशस्तो लाज-सक्तुभिः ॥ ६२ ॥
श्लोक 63
वाट्यश् चाम-यवैः शीतः शर्करा-माक्षिकान्वितः ।
यवागूः शालिभिस् तद्-वत् कोद्रवैश् च चिरन्-तनैः ॥ ६३ ॥
श्लोक 64
शीतेन शीत-वीर्यैश् च द्रव्यैः सिद्धेन भोजनम् ।
हिमाम्बु-परिषिक्तस्य पयसा स-सिता-मधु ॥ ६४ ॥
श्लोक 65
रसैश् चान्-अम्ल-लवणैर् जाङ्गलैर् घृत-भर्जितैः ।
मुद्गादीनां तथा यूषैर् जीवनीय-रसान्वितैः ॥ ६५ ॥
श्लोक 66
रसैश् चान्-अल्प-लवणैर् नस्यं क्षीर-घृतं सिद्धं शीतैर् इक्षोस् तथा रसः ।
निर्वापणाश् च गण्डूषाः सूत्र-स्थानोदिता हिताः ॥ ६६ ॥
श्लोक 67
शीतैर् इक्षोस् तथा रसैः शीतैर् इक्षोस् तथा रसे दाह-ज्वरोक्ता लेपाद्या निरीह-त्वं मनो-रतिः ।
महा-सरिद्-ध्रदादीनां दर्शन-स्मरणानि च ॥ ६७ ॥
श्लोक 68
दर्शन-स्मरणादि च तृष्णायां पवनोत्थायां स-गुडं दधि शस्यते ।
रसाश् च बृंहणाः शीता विदार्य्-आदि-गणाम्बु च ॥ ६८ ॥
श्लोक 69
विदार्य्-आदि-गणाम्बु वा पित्त-जायां सिता-युक्तः पक्वोदुम्बर-जो रसः ।
तत्-क्वाथो वा हिमस् तद्-वच् छारिवादि-गणाम्बु वा ॥ ६९ ॥
श्लोक 70
तद्-विधैश् च गणैः शीत-कषायान् स-सिता-मधून् ।
मधुरैर् औषधैस् तद्-वत् क्षीरि-वृक्षैश् च कल्पितान् ॥ ७० ॥
श्लोक 71
बीजपूरक-मृद्वीका-वट-वेतस-पल्लवान् ।
मूलानि कुश-काशानां यष्ट्य्-आह्वं च जले शृतम् ॥ ७१ ॥
श्लोक 72
ज्वरोदितं वा द्राक्षादि पञ्च-साराम्बु वा पिबेत् ।
कफोद्भवायां वमनं निम्ब-प्रसव-वारिणा ॥ ७२ ॥
श्लोक 73
बिल्वाढकी-पञ्च-कोल-दर्भ-पञ्चक-साधितम् ।
जलं पिबेद् रजन्या वा सिद्धं स-क्षौद्र-शर्करम् ॥ ७३ ॥
श्लोक 74
दर्भ-कच्छक-साधितम् जलं पिबेद् रजन्यां वा मुद्ग-यूषं च स-व्योष-पटोली-निम्ब-पल्लवम् ।
यवान्नं तीक्ष्ण-कवड-नस्य-लेहांश् च शीलयेत् ॥ ७४ ॥
श्लोक 75
सर्वैर् आमाच् च तद् धन्त्री क्रियेष्टा वमनं तथा ।
त्र्य्-ऊषणारुष्कर-वचा-फलाम्लोष्णाम्बु-मस्तुभिः ॥ ७५ ॥
श्लोक 76
अन्नात्ययान् मण्डम् उष्णं हिमं मन्थं च काल-वित् ।
तृषि श्रमान् मांस-रसं मन्थं वा स-सितं पिबेत् ॥ ७६ ॥
श्लोक 77
मद्यं वा स-सितं पिबेत् आतपात् स-सितं मन्थं यव-कोल-ज-सक्तुभिः ।
सर्वाण्य् अङ्गानि लिम्पेच् च तिल-पिण्याक-काञ्जिकैः ॥ ७७ ॥
श्लोक 78
शीत-स्नानाच् च मद्याम्बु पिबेत् तृण्-मान् गुडाम्बु वा ।
मद्याद् अर्ध-जलं मद्यं स्नातो ऽम्ल-लवणैर् युतम् ॥ ७८ ॥
श्लोक 79
शीत-स्नानात् तु मद्याम्बु पिबेत् तृड्-वान् गुडाम्बु वा स्नातो ऽम्ल-लवणायुतम् स्नेह-तीक्ष्ण-तराग्निस् तु स्व-भाव-शिशिरं जलम् ।
स्नेहाद् उष्णाम्ब्व् अ-जीर्णात् तु जीर्णान् मण्डं पिपासितः ॥ ७९ ॥
श्लोक 80
स्नेहात् तीक्ष्ण-तराग्निस् तु पिबेत् स्निग्धान्न-तृषितो हिम-स्पर्धि गुडोदकम् ।
गुर्व्-आद्य्-अन्नेन तृषितः पीत्वोष्णाम्बु तद् उल्लिखेत् ॥ ८० ॥
श्लोक 81
क्षय-जायां क्षय-हितं सर्वं बृंहणम् औषधम् ।
कृश-दुर्-बल-रूक्षाणां क्षीरं छागो रसो ऽथ-वा ॥ ८१ ॥
श्लोक 82
क्षीरं च सोर्ध्व-वातायां क्षय-कास-हरैः शृतम् ।
रोगोपसर्गाज् जातायां धान्याम्बु स-सिता-मधु ॥ ८२ ॥
श्लोक 83
रोगोपसर्ग-जातायां पाने प्रशस्तं सर्वा च क्रिया रोगाद्य्-अपेक्षया ।
तृष्यन् पूर्वामय-क्षीणो न लभेत जलं यदि ॥ ८३ ॥
श्लोक 84
तृष्णन् पूर्वामय-क्षीणो तृष्णक् पूर्वामय-क्षीणो मरणं दीर्घ-रोगं वा प्राप्नुयात् त्वरितं ततः ।
सात्म्यान्न-पान-भैषज्यैस् तृष्णां तस्य जयेत् पुरा ॥ ८४ ॥
श्लोक
तृष्णां तस्य जयेत् पुरस् तस्यां जितायाम् अन्यो ऽपि व्याधिः शक्यश् चिकित्सितुम् ॥ ८४ऊअब् ॥