श्लोक 1
व्रणः संजायते प्रायः पाकाच् छ्वयथु-पूर्वकात् ।
तम् एवोपचरेत् तस्माद् रक्षन् पाकं प्रयत्नतः ॥ १ ॥
श्लोक 2
सु-शीत-लेप-सेकास्र-मोक्ष-संशोधनादिभिः ।
शोफो ऽल्पो ऽल्पोष्म-रुक् सामः स-वर्णः कठिनः स्थिरः ॥ २ ॥
श्लोक 3
सु-शीत-लेप-सेकासृङ्- शोफो ऽल्पो ऽल्पोष्म-रुक् चामः पच्यमानो वि-वर्णस् तु रागी वस्तिर् इवाततः ।
स्फुटतीव स-निस्तोदः साङ्ग-मर्द-विजृम्भिकः ॥ ३ ॥
श्लोक 4
संरम्भा-रुचि-दाहोषा-तृड्-ज्वरा-निद्र-तान्वितः ।
स्त्यानं विष्यन्दयत्य् आज्यं व्रण-वत् स्पर्शना-सहः ॥ ४ ॥
श्लोक 5
पक्वे ऽल्प-वेग-ता म्लानिः पाण्डु-ता वलि-संभवः ।
नामो ऽन्तेषून्नतिर् मध्ये कण्डू-शोफादि-मार्दवम् ॥ ५ ॥
श्लोक 6
पक्वे ऽल्प-वेग-ता ग्लानिः पक्वे ऽल्प-वेदना ग्लानिः पक्वे ऽल्प-वेदना म्लानिः पक्वे ऽल्पा वेदना म्लानिः स्पृष्टे पूयस्य संचारो भवेद् वस्ताव् इवाम्भसः ।
शूलं नर्ते ऽनिलाद् दाहः पित्ताच् छोफः कफोदयात् ॥ ६ ॥
श्लोक 7
रागो रक्ताच् च पाकः स्याद् अतो दोषैः स-शोणितैः ।
पाके ऽतिवृत्ते सुषिरस् तनु-त्वग्-दोष-भक्षितः ॥ ७ ॥
श्लोक 8
वलीभिर् आचितः श्यावः शीर्यमाण-तनू-रुहः ।
कफ-जेषु तु शोफेषु गम्भीरं पाकम् एत्य् असृक् ॥ ८ ॥
श्लोक 9
वलीभिर् आचितः श्यामः पक्व-लिङ्गं ततो ऽ-स्पष्टं यत्र स्याच् छीत-शोफ-ता ।
त्वक्-सावर्ण्यं रुजो ऽल्प-त्वं घन-स्पर्श-त्वम् अश्म-वत् ॥ ९ ॥
श्लोक 10
रक्त-पाकम् इति ब्रूयात् तं प्राज्ञो मुक्त-संशयः ।
अल्प-सत्-त्वे ऽ-बले बाले पाकाद् वात्य्-अर्थम् उद्धते ॥ १० ॥
श्लोक 11
पाकाद् अत्य्-अर्थम् उद्धते पाके वात्य्-अर्थम् उद्धते दारणं मर्म-संध्य्-आदि-स्थिते चान्य-त्र पाटनम् ।
आम-च्छेदे सिरा-स्नायु-व्यापदो ऽसृग्-अति-स्रुतिः ॥ ११ ॥
श्लोक 12
रुजो ऽति-वृद्धिर् दरणं विसर्पो वा क्षतोद्भवः ।
तिष्ठन्न् अन्तः पुनः पूयः सिरा-स्नाय्व्-असृग्-आमिषम् ॥ १२ ॥
श्लोक 13
विवृद्धो दहति क्षिप्रं तृणोलपम् इवानलः ।
यश् छिनत्त्य् आमम् अ-ज्ञानाद् यश् च पक्वम् उपेक्षते ॥ १३ ॥
श्लोक 14
तृणोलुपम् इवानलः तृणोपलम् इवानलः तृणोच्चयम् इवानलः श्व-पचाव् इव विज्ञेयौ ताव् अ-निश्चित-कारिणौ ।
प्राक् शस्त्र-कर्मणश् चेष्टं भोजयेद् अन्नम् आतुरम् ॥ १४ ॥
श्लोक 15
श्व-पचाव् इव जानीयात् द्वाव् अ-निश्चित-कारिणौ प्राक् शस्त्र-कर्मणः श्रेष्ठं पान-पं पाययेन् मद्यं तीक्ष्णं यो वेदना-क्षमः ।
न मूर्छत्य् अन्न-संयोगान् मत्तः शस्त्रं न बुध्यते ॥ १५ ॥
श्लोक 16
अन्य-त्र मूढ-गर्भाश्म-मुख-रोगोदरातुरात् ।
अथाहृतोपकरणं वैद्यः प्राङ्-मुखम् आतुरम् ॥ १६ ॥
श्लोक 17
अथाहृतोपकरणो संमुखो यन्त्रयित्वाशु न्यस्येन् मर्मादि वर्जयन् ।
अनुलोमं सु-निशितं शस्त्रम् आ-पूय-दर्शनात् ॥ १७ ॥
श्लोक 18
संमुखं यन्त्रयित्वाशु सकृद् एवाहरेच् तच् च पाके तु सु-महत्य् अपि ।
पाटयेद् द्व्य्-अङ्गुलं सम्यग् द्व्य्-अङ्गुल-त्र्य्-अङ्गुलान्तरम् ॥ १८ ॥
श्लोक 19
एषित्वा सम्यग् एषिण्या परितः सु-निरूपितम् ।
अङ्गुली-नाल-वालैर् वा यथा-देशं यथाशयम् ॥ १९ ॥
श्लोक 20
यतो गतां गतिं विद्याद् उत्सङ्गो यत्र यत्र च ।
तत्र तत्र व्रणं कुर्यात् सु-विभक्तं निर्-आशयम् ॥ २० ॥
श्लोक 21
उत्सङ्गं यत्र यत्र च आयतं च विशालं च यथा दोषो न तिष्ठति ।
शौर्यम् आशु-क्रिया तीक्ष्णं शस्त्रम् अ-स्वेद-वेपथू ॥ २१ ॥
श्लोक 22
शौर्यम् आशु-क्रिया तीक्ष्ण- -शस्त्रम् अ-स्वेद-वेपथू अ-संमोहश् च वैद्यस्य शस्त्र-कर्मणि शस्यते ।
तिर्यक् छिन्द्याल् ललाट-भ्रू-दन्त-वेष्टक-जत्रुणि ॥ २२ ॥
श्लोक 23
कुक्षि-कक्षाक्षि-कूटौष्ठ-कपोल-गल-वङ्क्षणे ।
अन्य-त्र च्छेदनात् तिर्यक् सिरा-स्नायु-विपाटनम् ॥ २३ ॥
श्लोक 24
शस्त्रे ऽवचारिते वाग्भिः शीताम्भोभिश् च रोगिणम् ।
आश्वास्य परितो ऽङ्गुल्या परिपीड्य व्रणं ततः ॥ २४ ॥
श्लोक 25
क्षालयित्वा कषायेण प्लोतेनाम्भो ऽपनीय च ।
गुग्गुल्व्-अगुरु-सिद्धार्थ-हिङ्गु-सर्ज-रसान्वितैः ॥ २५ ॥
श्लोक 26
धूपयेच् पटु-षड्ग्रन्था-निम्ब-पत्त्रैर् घृत-प्लुतैः ।
तिल-कल्काज्य-मधुभिर् यथा-स्वं भेषजेन च ॥ २६ ॥
श्लोक 27
दिग्धां वर्तिं ततो दद्यात् तैर् एवाच्छादयेच् च ताम् ।
घृताक्तैः सक्तुभिश् चोर्ध्वं घनां कवलिकां ततः ॥ २७ ॥
श्लोक 28
तैर् एवाच्छादयेच् च तम् निधाय युक्त्या बध्नीयात् पट्टेन सु-समाहितम् ।
पार्श्वे सव्ये ऽप-सव्ये वा नाधस्-तान् नैव चोपरि ॥ २८ ॥
श्लोक 29
पट्टेन सु-समाहितः शुचि-सूक्ष्म-दृढाः पट्टाः कवल्यः स-विकेशिकाः ।
धूपिता मृदवः श्लक्ष्णा निर्-वलीका व्रणे हिताः ॥ २९ ॥
श्लोक 30
कवल्यः सु-विकेशिकाः कुर्वीतान्-अन्तरं तस्य रक्षां रक्षो-निषिद्धये ।
बलिं चोपहरेत् तेभ्यः सदा मूर्ध्ना च धारयेत् ॥ ३० ॥
श्लोक 31
कुर्वीतान्-अन्तरं सम्यग्- रक्षां रक्षो-निवृत्तये -रक्षां रक्षो-निषिद्धये सदा मूर्ध्नावधारयेत् लक्ष्मीं गुहाम् अतिगुहां जटिलां ब्रह्मचारिणीम् ।
वचां छत्त्राम् अतिच्छत्त्रां दूर्वां सिद्धार्थकान् अपि ॥ ३१ ॥
श्लोक 32
ततः स्नेह-दिनेहोक्तं तस्याचारं समादिशेत् ।
दिवा-स्वप्नो व्रणे कण्डू-राग-रुक्-शोफ-पूय-कृत् ॥ ३२ ॥
श्लोक 33
ततः स्नेह-विधानोक्तं स्त्रीणां तु स्मृति-संस्पर्श-दर्शनैश् चलित-स्रुते ।
शुक्रे व्यवाय-जान् दोषान् अ-संसर्गे ऽप्य् अवाप्नुयात् ॥ ३३ ॥
श्लोक
व्रणे श्वयथुर् आयासात् स च रागश् च जागरात् ।
तौ च रुक् च दिवा-स्वापात् ताश् च मृत्युश् च मैथुनात् ॥ ३३+(१) ॥
श्लोक 34
भोजनं च यथा-सात्म्यं यव-गोधूम-षष्टिकाः ।
मसूर-मुद्ग-तुबरी-जीवन्ती-सुनिषण्णकाः ॥ ३४ ॥
श्लोक 35
भोजनं तु यथा-सात्म्यं बाल-मूलक-वार्ताक-तण्डुलीयक-वास्तुकम् ।
कारवेल्लक-कर्कोट-पटोल-कटुका-फलम् ॥ ३५ ॥
श्लोक 36
सैन्धवं दाडिमं धात्री घृतं तप्त-हिमं जलम् ।
जीर्ण-शाल्य्-ओदनं स्निग्धम् अल्पम् उष्णोदकोत्तरम् ॥ ३६ ॥
श्लोक 37
अल्पम् उष्णं द्रवोत्तरम् भुञ्जानो जाङ्गलैर् मांसैः शीघ्रं व्रणम् अपोहति ।
अशितं मात्रया काले पथ्यं याति जरां सुखम् ॥ ३७ ॥
श्लोक 38
अ-जीर्णात् त्व् अनिलादीनां विभ्रमो बल-वान् भवेत् ।
ततः शोफ-रुजा-पाक-दाहानाहान् अवाप्नुयात् ॥ ३८ ॥
श्लोक 39
अ-जीर्णे त्व् अनिलादीनां नवं धान्यं तिलान् माषान् मद्यं मांसम् अ-जाङ्गलम् ।
क्षीरेक्षु-विकृतीर् अम्लं लवणं कटुकं त्यजेत् ॥ ३९ ॥
श्लोक 40
मद्यं मांसं त्व् अ-जाङ्गलम् यच् चान्यद् अपि विष्टम्भि विदाहि गुरु शीतलम् ।
वर्गो ऽयं नव-धान्यादिर् व्रणिनः सर्व-दोष-कृत् ॥ ४० ॥
श्लोक 41
व्रणिनां सर्व-दोष-कृत् मद्यं तीक्ष्णोष्ण-रूक्षाम्लम् आशु व्यापादयेद् व्रणम् ।
वालोशीरैश् च वीज्येत न चैनं परिघट्टयेत् ॥ ४१ ॥
श्लोक 42
बालोशीरैश् च वीज्येत न तुदेन् न च कण्डूयेच् चेष्टमानश् च पालयेत् ।
स्निग्ध-वृद्ध-द्वि-जातीनां कथाः शृण्वन् मनः-प्रियाः ॥ ४२ ॥
श्लोक 43
छयानः परिपालयेत् सिद्ध-वृद्ध-द्वि-जातीनां आशा-वान् व्याधि-मोक्षाय क्षिप्रं व्रणम् अपोहति ।
तृतीये ऽह्नि पुनः कुर्याद् व्रण-कर्म च पूर्व-वत् ॥ ४३ ॥
श्लोक 44
प्रक्षालनादि दिवसे द्वितीये नाचरेत् तथा ।
तीव्र-व्यथो विग्रथितश् चिरात् संरोहति व्रणः ॥ ४४ ॥
श्लोक 45
स्निग्धां रूक्षां श्लथां गाढां दुर्-न्यस्तां च विकेशिकाम् ।
व्रणे न दद्यात् कल्कं वा स्नेहात् क्लेदो विवर्धते ॥ ४५ ॥
श्लोक 46
मांस-च्छेदो ऽति-रुग्-रौक्ष्याद् दरणं शोणितागमः ।
श्लथाति-गाढ-दुर्-न्यासैर् व्रण-वर्त्मावघर्षणम् ॥ ४६ ॥
श्लोक 47
श्लथाति-गाढ-दुर्-न्यस्तैर् स-पूति-मांसं सोत्सङ्गं स-गतिं पूय-गर्भिणम् ।
व्रणं विशोधयेच् छीघ्रं स्थिता ह्य् अन्तर् विकेशिका ॥ ४७ ॥
श्लोक 48
व्य्-अम्लं तु पाटितं शोफं पाचनैः समुपाचरेत् ।
भोजनैर् उपनाहैश् च नाति-व्रण-विरोधिभिः ॥ ४८ ॥
श्लोक 49
नाति-व्रण-विशोधिभिः सद्यः सद्यो-व्रणान् सीव्येद् विवृतान् अभिघात-जान् ।
मेदो-जाō̃ लिखितान् ग्रन्थीन् ह्रस्वाः पालीश् च कर्णयोः ॥ ४९ ॥
श्लोक 50
शिरो-ऽक्षि-कूट-नासौष्ठ-गण्ड-कर्णोरु-बाहुषु ।
ग्रीवा-ललाट-मुष्क-स्फिङ्-मेढ्र-पायूदरादिषु ॥ ५० ॥
श्लोक 51
गम्भीरेषु प्रदेशेषु मांसलेष्व् अ-चलेषु च ।
न तु वङ्क्षण-कक्षादाव् अल्प-मांसे चले व्रणान् ॥ ५१ ॥
श्लोक 52
अल्प-मांस-चले व्रणान् अल्प-मांस-चलान् व्रणान् वायु-निर्वाहिणः शल्य-गर्भान् क्षार-विषाग्नि-जान् ।
सीव्येच् चलास्थि-शुष्कास्र-तृण-रोमापनीय तु ॥ ५२ ॥
श्लोक 53
तृण-रोमापनीय च प्रलम्बि मांसं विच्छिन्नं निवेश्य स्व-निवेशने ।
संध्य्-अस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः ॥ ५३ ॥
श्लोक 54
संध्य्-अस्थ्य् अवस्थिते रक्ते स्नाव्ना सूत्रेण वल्कलैः सीव्येन् न दूरे नासन्ने गृह्णन् नाल्पं न वा बहु ।
सान्त्वयित्वा ततश् चार्तं व्रणे मधु-घृत-द्रुतैः ॥ ५४ ॥
श्लोक 55
व्रणे मधु-घृत-प्लुतैः अञ्जन-क्षौम-ज-मषी-फलिनी-शल्लकी-फलैः ।
गृह्णन् स्व्-अल्पं न वा बहु शान्तयित्वा ततश् चार्तं सान्तयित्वा ततश् चार्तं स-लोध्र-मधुकैर् दिग्धे युञ्ज्याद् बन्धादि पूर्व-वत् ॥ ५५ ॥
श्लोक 56
व्रणो निः-शोणितौष्ठो यः किञ्-चिद् एवावलिख्य तम् ।
संजात-रुधिरं सीव्येत् संधानं ह्य् अस्य शोणितम् ॥ ५६ ॥
श्लोक 57
बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च ।
किञ्-चिद् एव विलिख्य तम् आविकाजिन-कौशेयम् उष्णं क्षौमं तु शीतलम् ॥ ५७ ॥
श्लोक 58
शीतोष्णं तुला-संतान-कार्पास-स्नायु-वल्क-जम् ।
ताम्रायस्-त्रपु-सीसानि व्रणे मेदः-कफाधिके ॥ ५८ ॥
श्लोक 59
कार्पास-स्नाव-वल्क-जम् भङ्गे च युञ्ज्यात् फलकं चर्म-वल्क-कुशादि च ।
स्व-नामानुगताकारा बन्धास् तु दश पञ्च च ॥ ५९ ॥
श्लोक 60
कोश-स्वस्तिक-मुत्तोली-चीन-दामानुवेल्लितम् ।
खट्वा-विबन्ध-स्थगिका-वितानोत्सङ्ग-गोष्-फणाः ॥ ६० ॥
श्लोक 61
वितानोत्सङ्ग-गो-फणाः यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत् ।
यो यत्र सु-निविष्टः स्यात् तं तेषां तत्र बुद्धि-मान् ॥ ६१ ॥
श्लोक
यो यत्र संनिविष्टः स्यात् विदध्यात् तेषु तेष्व् एव कोशम् अङ्गुलि-पर्वसु ।
स्वस्तिकं कर्ण-कक्षादि-स्तनेषूक्तं च संधिषु ॥ ६१.१+(१) ॥
श्लोक
मुत्तोलीं मेढ्र-ग्रीवादौ युञ्ज्याच् चीनम् अपाङ्गयोः ।
संबाधे ऽङ्गे तथा दाम शाखास्व् एवानुवेल्लितम् ॥ ६१.१+(२) ॥
श्लोक
खट्वां गण्डे हनौ शङ्खे विबन्धं पृष्ठकोदरे ।
अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकाम् अन्त्र-वृद्धिषु ॥ ६१.१+(३) ॥
श्लोक
वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत् ।
विलम्बिनि तथोत्सङ्गं नासौष्ठ-चिबुकादिषु ॥ ६१.१+(४) ॥
श्लोक
गोष्-फणं संधिषु तथा यमकं यमिके व्रणे ।
वृत्ते ऽङ्गे मण्डलाख्यं च पञ्चाङ्गीं चोर्ध्व-जत्रुषु ॥ ६१.१+(५) ॥
श्लोक 62
बध्नीयाद् गाढम् ऊरु-स्फिक्-कक्षा-वङ्क्षण-मूर्धसु ।
शाखा-वदन-कर्णोरः-पृष्ठ-पार्श्व-गलोदरे ॥ ६२ ॥
श्लोक 63
समं मेहन-मुष्के च नेत्रे संधिषु च श्लथम् ।
बध्नीयाच् छिथिल-स्थाने वात-श्लेष्मोद्भवे समम् ॥ ६३ ॥
श्लोक 64
गाढम् एव सम-स्थाने भृशं गाढं तद्-आशये ।
शीते वसन्ते ऽपि च तौ मोक्षणीयौ त्र्य्-अहात् त्र्य्-अहात् ॥ ६४ ॥
श्लोक 65
भृशं गाढं तद्-आश्रये शीते वसन्ते च तथा मोक्षयेत् तौ त्र्य्-अहात् त्र्य्-अहात् मोक्षणीयस् त्र्य्-अहात् त्र्य्-अहात् पित्त-रक्तोत्थयोर् बन्धो गाढ-स्थाने समो मतः ।
सम-स्थाने श्लथो नैव शिथिलस्याशये तथा ॥ ६५ ॥
श्लोक 66
सायं प्रातस् तयोर् मोक्षो ग्रीष्मे शरदि चेष्यते ।
अ-बद्धो दंश-मशक-शीत-वातादि-पीडितः ॥ ६६ ॥
श्लोक 67
दुष्टी-भवेच् चिरं चात्र न तिष्ठेत् स्नेह-भेषजम् ।
कृच्छ्रेण शुद्धिं रूढिं वा याति रूढो वि-वर्ण-ताम् ॥ ६७ ॥
श्लोक 68
बद्धस् तु चूर्णितो भग्नो विश्लिष्टः पाटितो ऽपि वा ।
छिन्न-स्नायु-सिरो ऽप्य् आशु सुखं संरोहति व्रणः ॥ ६८ ॥
श्लोक 69
उत्थान-शयनाद्यासु सर्वेहासु न पीड्यते ।
उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनो ऽति-रुक् ॥ ६९ ॥
श्लोक 70
सर्वेहासु न पीडयेत् उद्धृतौष्ठः समुत्सन्नो समो मृदुर् अ-रुक् शीघ्रं व्रणः शुध्यति रोहति ।
स्थिराणाम् अल्प-मांसानां रौक्ष्याद् अन्-उपरोहताम् ॥ ७० ॥
श्लोक 71
प्रच्छाद्यम् औषधं पत्त्रैर् यथा-दोषं यथर्तु च ।
अ-जीर्ण-तरुणाच् छिद्रैः समन्तात् सु-निवेशितैः ॥ ७१ ॥
श्लोक 72
अ-जीर्णा-तरुणाच् छिद्रैः धौतैर् अ-कर्कशैः क्षीरि-भूर्जार्जुन-कदम्ब-जैः ।
कुष्ठिनाम् अग्नि-दग्धानां पिटिका मधु-मेहिनाम् ॥ ७२ ॥
श्लोक 73
कर्णिकाश् चोन्दुरु-विषे क्षार-दग्धा विषान्विताः ।
बन्धनीया न मांस्-पाके गुद-पाके च दारुणे ॥ ७३ ॥
श्लोक 74
न मांस्-पाके च बध्नीयाद् मांस-पाके न बध्नीयाद् शीर्यमाणाः स-रुग्-दाहाः शोफावस्था-विसर्पिणः ।
अ-रक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् कृमीन् ॥ ७४ ॥
श्लोक 75
ते भक्षयन्तः कुर्वन्ति रुजा-शोफास्र-संस्रवान् ।
सुरसादिं प्रयुञ्जीत तत्र धावन-पूरणे ॥ ७५ ॥
श्लोक 76
रुजा-शोफास्र-विस्रुतीः सप्तपर्ण-करञ्जार्क-निम्ब-राजादन-त्वचः ।
गो-मूत्र-कल्कितो लेपः सेकः क्षाराम्बुना हितः ॥ ७६ ॥
श्लोक 77
गो-मूत्र-कल्कितालेपः प्रच्छाद्य मांस-पेश्या वा व्रणं तान् आशु निर्हरेत् ।
न चैनं त्वरमाणो ऽन्तः स-दोषम् उपरोहयेत् ॥ ७७ ॥
श्लोक 78
सो ऽल्पेनाप्य् अपचारेण भूयो विकुरुते यतः ।
रूढे ऽप्य् अ-जीर्ण-व्यायाम-व्यवायादीन् विवर्जयेत् ॥ ७८ ॥
श्लोक 79
हर्षं क्रोधं भयं चापि यावद् आ-स्थैर्य-संभवात् ।
आदरेणानुवर्त्यो ऽयं मासान् षट् सप्त वा विधिः ॥ ७९ ॥
श्लोक 80
हर्षं क्रोधं भयं वापि उत्पद्यमानासु च तासु तासु वार्तासु दोषादि-बलानुसारी ।
तैस् तैर् उपायैः प्रयतश् चिकित्सेद् आलोचयन् विस्तरम् उत्तरोक्तम् ॥ ८० ॥