श्लोक 1
मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला-त्रपुस-कुटज-मूर्वा-देवदाली-कृमिघ्नम् ।
विदुल-दहन-चित्राः कोशवत्यौ करञ्जः कण-लवण-वचैला-सर्षपाश् छर्दनानि ॥ १ ॥
श्लोक 2
निकुम्भ-कुम्भ-त्रि-फला-गवाक्षी-स्नुक्-शङ्खिनी-नीलिनि-तिल्वकानि ।
शम्याक-कम्पिल्लक-हेमदुग्धा दुग्धं च मूत्रं च विरेचनानि ॥ २ ॥
श्लोक 3
मदन-कुटज-कुष्ठ-देवदाली-मधुक-वचा-दश-मूल-दारु-रास्नाः ।
यव-मिशि-कृतवेधनं कुलत्था मधु लवणं त्रिवृता निरूहणानि ॥ ३ ॥
श्लोक 4
यव-मिशि-कृतवेधनं कुलत्थो वेल्लापामार्ग-व्योष-दार्वी-सुराला बीजं शैरीषं बार्हतं शैग्रवं च ।
सारो माधूकः सैन्धवं तार्क्ष्य-शैलं त्रुट्यौ पृथ्वीका शोधयन्त्य् उत्तमाङ्गम् ॥ ४ ॥
श्लोक 5
भद्रदारु नतं कुष्ठं दश-मूलं बला-द्वयम् ।
वायुं वीरतरादिश् च विदार्य्-आदिश् च नाशयेत् ॥ ५ ॥
श्लोक 6
दश-मूलं बला-त्रयम् विदार्य्-आदिश् च शोधयेत् दूर्वानन्ता निम्ब-वासात्मगुप्ता गुन्द्राभीरुः शीतपाकी प्रियङ्गुः ।
न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं शारिवादिश् च पित्तम् ॥ ६ ॥
श्लोक 7
आरग्वधादिर् अर्कादिर् मुष्ककाद्यो ऽसनादिकः ।
सुरसादिः स-मुस्तादिर् वत्सकादिर् बलास-जित् ॥ ७ ॥
श्लोक 8
जीवन्ती-काकोल्यौ मेदे द्वे मुद्ग-माषपर्ण्यौ च ।
ऋषभक-जीवक-मधुकं चेति गणो जीवनीयाख्यः ॥ ८ ॥
श्लोक 9
विदारि-पञ्चाङ्गुल-वृश्चिकाली-वृश्चीव-देवाह्वय-शूर्पपर्ण्यः ।
कण्डूकरी जीवन-ह्रस्व-संज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥ ९ ॥
श्लोक 10
-वृश्चीव-देवा-द्वय-शूर्पपर्ण्यः कण्डूकरी गोपसुता त्रिपादी विदार्य्-आदिर् अयं हृद्यो बृंहणो वात-पित्त-हा ।
शोष-गुल्माङ्ग-मर्दोर्ध्व-श्वास-कास-हरो गणः ॥ १० ॥
श्लोक 11
शोष-गुल्माङ्ग-सादोर्ध्व- शारिवोशीर-काश्मर्य-मधूक-शिशिर-द्वयम् ।
यष्टी परूषकं हन्ति दाह-पित्तास्र-तृड्-ज्वरान् ॥ ११ ॥
श्लोक 12
पद्मक-पुण्ड्रौ वृद्धि-तुगर्द्ध्यः शृङ्ग्य् अमृता दश जीवन-संज्ञाः ।
स्तन्य-करा घ्नन्तीरण-पित्तं प्रीणन-जीवन-बृंहण-वृष्याः ॥ १२ ॥
श्लोक 13
परूषकं वरा द्राक्षा कट्फलं कतकात् फलम् ।
राजाह्वं दाडिमं शाकं तृण्-मूत्रामय-वात-जित् ॥ १३ ॥
श्लोक 14
अञ्जनं फलिनी मांसी पद्मोत्पल-रसाञ्जनम् ।
सैला-मधुक-नागाह्वं विषान्तर्-दाह-पित्त-नुत् ॥ १४ ॥
श्लोक 15
विषान्तर्-दाह-पित्त-जित् विषान्तर्-दाह-पित्त-हृत् पटोल-कटु-रोहिणी-चन्दनं मधुस्रव-गुडूचि-पाठान्वितम् ।
निहन्ति कफ-पित्त-कुष्ठ-ज्वरान् विषं वमिम् अ-रोचकं कामलाम् ॥ १५ ॥
श्लोक 16
गुडूची-पद्मकारिष्ट-धानका-रक्त-चन्दनम् ।
पित्त-श्लेष्म-ज्वर-च्छर्दि-दाह-तृष्णा-घ्नम् अग्नि-कृत् ॥ १६ ॥
श्लोक 17
धान्यका-रक्त-चन्दनम् धान्यकं रक्त-चन्दनम् धनिका-रक्त-चन्दनम् आरग्वधेन्द्रयव-पाटलि-काकतिक्ता-निम्बामृता-मधुरसा-स्रुव-वृक्ष-पाठाः ।
भूनिम्ब-सैर्यक-पटोल-करञ्ज-युग्म-सप्तच्छदाग्नि-सुषवी-फल-बाण-घोण्टाः ॥
१७ ॥
श्लोक 18
आरग्वधादिर् जयति च्छर्दि-कुष्ठ-विष-ज्वरान् ।
कफं कण्डूं प्रमेहं च दुष्ट-व्रण-विशोधनः ॥ १८ ॥
श्लोक 19
मेदोदर-विशोधनः असन-तिनिश-भूर्ज-श्वेतवाह-प्रकीर्याः खदिर-कदर-भण्डी-शिंशिपा-मेषशृङ्ग्यः ।
त्रि-हिम-तल-पलाशा जोङ्गकः शाक-शालौ क्रमुक-धव-कलिङ्ग-च्छागकर्णाश्वकर्णाः ॥
१९ ॥
श्लोक 20
असनादिर् विजयते श्वित्र-कुष्ठ-कफ-क्रिमीन् ।
पाण्डु-रोगं प्रमेहं च मेदो-दोष-निबर्हणः ॥ २० ॥
श्लोक 21
श्वित्र-कुष्ठ-वमि-क्रिमीन् वरुण-सैर्यक-युग्म-शतावरी-दहन-मोरट-बिल्व-विषाणिकाः ।
द्वि-बृहती-द्वि-करञ्ज-जया-द्वयं बहलपल्लव-दर्भ-रुजाकराः ॥ २१ ॥
श्लोक 22
वरण-सैर्यक-युग्म-शतावरी- वरुणादिः कफं मेदो मन्दाग्नि-त्वं नियच्छति ।
आढ्य-वातं शिरः-शूलं गुल्मं चान्तः स-विद्रधिम् ॥ २२ ॥
श्लोक 23
वरणादिः कफं मेदो अधो-वातं शिरः-शूलं ऊषकस् तुत्थकं हिङ्गु कासीस-द्वय-सैन्धवम् ।
स-शिला-जतु कृच्छ्राश्म-गुल्म-मेदः-कफापहम् ॥ २३ ॥
श्लोक 24
गुल्म-मेह-कफापहम् वेल्लन्तरारणिक-बूक-वृषाश्मभेद-गोकण्टकेत्कट-सहाचर-बाण-काशाः ।
वृक्षादनी-नल-कुश-द्वय-गुण्ठ-गुन्द्रा-भल्लूक-मोरट-कुरण्ट-करम्भ-पार्थाः ॥
२४ ॥
श्लोक 25
गोकण्टकोत्कट-सहाचर-बाण-काशाः वृक्षादनी-नल-कुश-द्वय-गुन्थ-गुन्द्रावृक्षादनी-नल-कुश-द्वय-गुञ्छ-गुन्द्रा- वृक्षादनी-नल-कुश-द्वय-गुच्छ-गुन्द्रा- वर्गो वीरतराद्यो ऽयं हन्ति वात-कृतान् गदान् ।
अश्मरी-शर्करा-मूत्र-कृच्छ्राघात-रुजा-हरः ॥ २५ ॥
श्लोक 26
कृच्छ्राघात-रुजापहः लोध्र-शाबरक-लोध्र-पलाशा जिङ्गिनी-सरल-कट्फल-युक्ताः ।
कुत्सिताम्ब-कदली-गतशोकाः सैलवालु-परिपेलव-मोचाः ॥ २६ ॥
श्लोक 27
लोध्र-शाबर-कदम्ब-पलाशा झिञ्झिणी-सरल-कट्फल-युक्ताः एष लोध्रादिको नाम मेदः-कफ-हरो गणः ।
योनि-दोष-हरः स्तम्भी वर्ण्यो विष-विनाशनः ॥ २७ ॥
श्लोक 28
अर्कालर्कौ नागदन्ती विशल्या भार्गी रास्ना वृश्चिकाली प्रकीर्या ।
प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेता-युग्मं तापसानां च वृक्षः ॥ २८ ॥
श्लोक 29
अयम् अर्कादिको वर्गः कफ-मेदो-विषापहः ।
कृमि-कुष्ठ-प्रशमनो विशेषाद् व्रण-शोधनः ॥ २९ ॥
श्लोक 30
अयम् अर्कादिको नाम सुरस-युग-फणिज्जं कालमाला विडङ्गं खरबुस-वृषकर्णी-कट्फलं कासमर्दः ।
क्षवक-सरसि-भार्गी-कार्मुकाः काकमाची कुलहल-विषमुष्टी भूस्तृणो भूतकेशी ॥ ३० ॥
श्लोक 31
खरबुक-वृषकर्णी-कट्फलाः कासमर्दः खरबुस-वृषकर्णी-कट्फलाः कासमर्दः ब्च् खरमुख-वृषकर्णी-कट्फलं कासमर्दः क्षवक-सुरसि-भार्गी-कार्मुकाः काकमाची क्षवक-सुरसि-भार्गी-कामुकाः काकमाची क्षवक-सरसि-भार्गी-कामुकाः काकमाची क्षवक-स्वरसि-भार्गी-कार्मुकाः काकमाची सुरसादिर् गणः श्लेष्म-मेदः-कृमि-निषूदनः ।
प्रतिश्याया-रुचि-श्वास-कास-घ्नो व्रण-शोधनः ॥ ३१ ॥
श्लोक 32
मुष्कक-स्नुग्-वरा-द्वीपि-पलाश-धव-शिंशिपाः ।
गुल्म-मेहाश्मरी-पाण्डु-मेदो-ऽर्शः-कफ-शुक्र-जित् ॥ ३२ ॥
श्लोक 33
पलाश-धव-शिंशिपम् वत्सक-मूर्वा-भार्गी-कटुका मरीचं घुणप्रिया च गण्डीरम् ।
एला पाठाजाजी कट्वङ्ग-फलाजमोद-सिद्धार्थ-वचाः ॥ ३३ ॥
श्लोक 34
जीरक-हिङ्गु-विडङ्गं पशुगन्धा पञ्च-कोलकं हन्ति ।
चल-कफ-मेदः-पीनस-गुल्म-ज्वर-शूल-दुर्-नाम्नः ॥ ३४ ॥
श्लोक 35
पशुगन्धा पञ्च-कोलकं घ्नन्ति वचा-जलद-देवाह्व-नागरातिविषाभयाः ।
हरिद्रा-द्वय-यष्ट्य्-आह्व-कलशी-कुटजोद्भवाः ॥ ३५ ॥
श्लोक 36
वचा-हरिद्रादि-गणाव् आमातीसार-नाशनौ ।
मेदः-कफाढ्य-पवन-स्तन्य-दोष-निबर्हणौ ॥ ३६ ॥
श्लोक 37
आमातीसार-पाचनौ प्रियङ्गु-पुष्पाञ्जन-युग्म-पद्माः पद्माद् रजो योजनवल्ल्य् अनन्ता ।
मानद्रुमो मोच-रसः समङ्गा पुन्नाग-शीतं मदनीय-हेतुः ॥ ३७ ॥
श्लोक 38
सारद्रुमो मोच-रसः समङ्गा पुन्नाम-शीतं मदनीय-हेतुः अम्बष्ठा मधुकं नमस्करी नन्दीवृक्ष-पलाश-कच्छुराः ।
लोध्रं धातकि-बिल्व-पेशिके कट्वङ्गः कमलोद्भवं रजः ॥ ३८ ॥
श्लोक 39
गणौ प्रियङ्ग्व्-अम्बष्ठादी पक्वातीसार-नाशनौ ।
संधानीयौ हितौ पित्ते व्रणानाम् अपि रोपणौ ॥ ३९ ॥
श्लोक 40
मुस्ता-वचाग्नि-द्वि-निशा-द्वि-तिक्ता-भल्लात-पाठा-त्रि-फला-विषाख्याः ।
कुष्ठं त्रुटी हैमवती च योनि-स्तन्यामय-घ्ना मल-पाचनाश् च ॥ ४० ॥
श्लोक 41
न्यग्रोध-पिप्पल-सदाफल-लोध्र-युग्मं जम्बू-द्वयार्जुन-कपीतन-सोमवल्काः ।
प्लक्षाम्र-वञ्जुल-पियाल-पलाश-नन्दी-कोली-कदम्ब-विरला-मधुकं मधूकम् ॥ ४१ ॥
श्लोक 42
न्यग्रोध-पिप्पल-सदाफल-लोध्र-युग्म-जम्बू-द्वयार्जुन-कपीतन-सोमवल्काः न्यग्रोधादिर् गणो व्रण्यः संग्राही भग्न-साधनः ।
मेदः-पित्तास्र-तृड्-दाह-योनि-रोग-निबर्हणः ॥ ४२ ॥
श्लोक 43
न्यग्रोधादिर् गणो वर्ण्यः -योनि-दोष-निबर्हणः एला-युग्म-तुरुष्क-कुष्ठ-फलिनी-मांसी-जल-ध्यामकं ॥ ४३अ ॥
स्पृक्का-चोरक-चोच-पत्त्र-तगर-स्थौणेय-जाती-रसाः ॥ ४३ब् ॥
-स्पृक्का-चोरक-चोच-पत्त्र-तगर-स्थौणेय-जाती-रसाः शुक्तिर् व्याघ्रनखो ऽमराह्वम् अगुरुः श्रीवासकः कुङ्कुमं ॥ ४३च् ॥
शुक्तिर् व्याघ्रनखो ऽमराह्वम् अगुरुः श्रीवासकं कुङ्कुमं शुक्ति-व्याघ्रनखौ सुराह्वम् अगुरुः श्रीवेष्टकः कुङ्कुमं चण्डा-गुग्गुलु-देव-धूप-खपुराः पुन्नाग-नागाह्वयम् ॥ ४३द् ॥
श्लोक 44
एलादिको वात-कफौ विषं च विनियच्छति ।
वर्ण-प्रसादनः कण्डू-पिटिका-कोठ-नाशनः ॥ ४४ ॥
श्लोक 45
वर्ण्यः प्रसादनः कण्डू- श्यामा-दन्ती-द्रवन्ती-क्रमुक-कुटरणा-शङ्खिनी-चर्म-साह्वा- ॥ ४५अ ॥
श्यामा-दन्ती-द्रवन्ती-क्रमुक-कुटरणी-शङ्खिनी-चर्म-साह्वा- -स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः ॥ ४५ब् ॥
बस्तान्त्री व्याधिघातो बहल-बहु-रसस् तीक्ष्णवृक्षात् फलानि ॥ ४५च् ॥
बस्तान्त्री व्याधिघातो बहुल-बहु-रसस् तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषम-रुचि-कफौ हृद्-रुजं मूत्र-कृच्छ्रम् ॥ ४५द् ॥
श्लोक 46
त्रयस्-त्रिंशद् इति प्रोक्ता वर्गास् तेषु त्व् अ-लाभतः ।
युञ्ज्यात् तद्-विधम् अन्यच् च द्रव्यं जह्याद् अ-यौगिकम् ॥ ४६ ॥
श्लोक 47
एते वर्गा दोष-दूष्याद्य् अपेक्ष्य कल्क-क्वाथ-स्नेह-लेहादि-युक्ताः ।
पाने नस्ये ऽन्वासने ऽन्तर् बहिर् वा लेपाभ्यङ्गैर् घ्नन्ति रोगान् सु-कृच्छ्रान् ॥ ४७ ॥
एते वर्गा दोष-दूष्याद्य् अवेक्ष्य सेकालेपैर् घ्नन्ति रोगान् सु-कृच्छ्रान् स्वेदाभ्यङ्गैर् घ्नन्ति रोगान् सु-कृच्छ्रान्