शल्याहरण विधि अध्याय

श्लोक 1

वक्रर्जु-तिर्यग्-ऊर्ध्वाधः शल्यानां पञ्च-धा गतिः ।
ध्यामं शोफ-रुजा-वन्तं स्रवन्तं शोणितं मुहुः ॥ १ ॥

श्लोक 2

अभ्युद्गतं बुद्बुद-वत् पिटिकोपचितं व्रणम् ।
मृदु-मांसं च जानीयाद् अन्तः-शल्यं समासतः ॥ २ ॥

श्लोक 3

अभ्युन्नतं बुद्बुद-वत् मृदु-मांसं विजानीयाद् विशेषात् त्वग्-गते शल्ये वि-वर्णः कठिनायतः ।
शोफो भवति मांस-स्थे चोषः शोफो विवर्धते ॥ ३ ॥

श्लोक 4

पीडना-क्षम-ता पाकः शल्य-मार्गो न रोहति ।
पेश्य्-अन्तर-गते मांस-प्राप्त-वच् छ्वयथुं विना ॥ ४ ॥

श्लोक 5

पीडने ऽ-क्षम-ता पाकः -प्राप्त-वच् छ्वयथोर् विना आक्षेपः स्नायु-जालस्य संरम्भ-स्तम्भ-वेदनाः ।
स्नायु-गे दुर्-हरं चैतत् सिराध्मानं सिराश्रिते ॥ ५ ॥

श्लोक 6

स्नाव-गे दुर्-हरं चैतत् स्व-कर्म-गुण-हानिः स्यात् स्रोतसां स्रोतसि स्थिते ।
धमनी-स्थे ऽनिले रक्तं फेन-युक्तम् उदीरयेत् ॥ ६ ॥

श्लोक 7

फेन-युक्तम् उदीरयन् निर्याति शब्द-वान् स्याच् च हृल्-लासः साङ्ग-वेदनः ।
संघर्षो बल-वान् अस्थि-संधि-प्राप्ते ऽस्थि-पूर्ण-ता ॥ ७ ॥

श्लोक 8

संहर्षो बल-वान् अस्थि- नैक-रूपा रुजो ऽस्थि-स्थे शोफस् तद्-वच् च संधि-गे ।
चेष्टा-निवृत्तिश् च भवेद् आटोपः कोष्ठ-संश्रिते ॥ ८ ॥

श्लोक 9

आनाहो ऽन्न-शकृन्-मूत्र-दर्शनं च व्रणानने ।
विद्यान् मर्म-गतं शल्यं मर्म-विद्धोपलक्षणैः ॥ ९ ॥

श्लोक 10

यथा-स्वं च परिस्रावैस् त्वग्-आदिषु विभावयेत् ।
रुह्यते शुद्ध-देहानाम् अनुलोम-स्थितं तु तत् ॥ १० ॥

श्लोक 11

यथा-यथं परिस्रावैस् दोष-कोपाभिघातादि-क्षोभाद् भूयो ऽपि बाधते ।
त्वङ्-नष्टे यत्र तत्र स्युर् अभ्यङ्ग-स्वेद-मर्दनैः ॥ ११ ॥

श्लोक 12

राग-रुग्-दाह-संरम्भा यत्र चाज्यं विलीयते ।
आशु शुष्यति लेपो वा तत्-स्थानं शल्य-वद् वदेत् ॥ १२ ॥

श्लोक 13

यत्र वाज्यं विलीयते आशुष्यति प्रलेपो वा मांस-प्रणष्टं संशुद्ध्या कर्शनाच् छ्लथ-तां गतम् ।
क्षोभाद् रागादिभिः शल्यं लक्षयेत् तद्-वद् एव च ॥ १३ ॥

श्लोक 14

कर्षणाच् छ्लथ-तां गतम् पेश्य्-अस्थि-संधि-कोष्ठेषु नष्टम् अस्थिषु लक्षयेत् ।
अस्थ्नाम् अभ्यञ्जन-स्वेद-बन्ध-पीडन-मर्दनैः ॥ १४ ॥

श्लोक 15

प्रसारणाकुञ्चनतः संधि-नष्टं तथास्थि-वत् ।
नष्टे स्नायु-सिरा-स्रोतो-धमनीष्व् अ-समे पथि ॥ १५ ॥

श्लोक 16

अश्व-युक्तं रथं खण्ड-चक्रम् आरोप्य रोगिणम् ।
शीघ्रं नयेत् ततस् तस्य संरम्भाच् छल्यम् आदिशेत् ॥ १६ ॥

श्लोक 17

मर्म-नष्टं पृथङ् नोक्तं तेषां मांसादि-संश्रयात् ।
सामान्येन स-शल्यं तु क्षोभिण्या क्रियया स-रुक् ॥ १७ ॥

श्लोक 18

वृत्तं पृथु चतुष्-कोणं त्रि-पुटं च समासतः ।
अ-दृश्य-शल्य-संस्थानं व्रणाकृत्या विभावयेत् ॥ १८ ॥

श्लोक 19

तेषाम् आहरणोपायौ प्रतिलोमानुलोमकौ ।
अर्वाचीन-पराचीने निर्हरेत् तद्-विपर्ययात् ॥ १९ ॥

श्लोक 20

अवाचीन-पराचीने सुखाहार्यं यतश् छित्त्वा ततस् तिर्यग्-गतं हरेत् ।
शल्यं न निर्घात्यम् उरः-कक्षा-वङ्क्षण-पार्श्व-गम् ॥ २० ॥

श्लोक 21

प्रतिलोमम् अन्-उत्तुण्डं छेद्यं पृथु-मुखं च यत् ।
नैवाहरेद् वि-शल्य-घ्नं नष्टं वा निर्-उपद्रवम् ॥ २१ ॥

श्लोक 22

अथाहरेत् कर-प्राप्यं करेणैवेतरत् पुनः ।
दृश्यं सिंहाहि-मकर-वर्मि-कर्कटकाननैः ॥ २२ ॥

श्लोक 23

अ-दृश्यं व्रण-संस्थानाद् ग्रहीतुं शक्यते यतः ।
कङ्क-भृङ्गाह्व-कुरर-शरारि-वायसाननैः ॥ २३ ॥

श्लोक 24

संदंशाभ्यां त्वग्-आदि-स्थं तालाभ्यां सुषिरं हरेत् ।
सुषिर-स्थं तु नलकैः शेषं शेषैर् यथा-यथम् ॥ २४ ॥

श्लोक 25

शस्त्रेण वा विशस्यादौ ततो निर्-लोहितं व्रणम् ।
कृत्वा घृतेन संस्वेद्य बद्धाचारिकम् आदिशेत् ॥ २५ ॥

श्लोक 26

बद्धाचारिकम् आचरेत् सिरा-स्नायु-विलग्नं तु चालयित्वा शलाकया ।
हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना ॥ २६ ॥

श्लोक 27

सिरा-स्नायु-विलग्नं च सिरा-स्नाव-विलग्नं तु ततः स्थानान्तरं प्राप्तं आहरेत् तद् यथा-यथम् ।
यथा-मार्गं दुर्-आकर्षम् अन्यतो ऽप्य् एवम् आहरेत् ॥ २७ ॥

श्लोक 28

अस्थि-दष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत् ।
इत्य् अ-शक्ये सु-बलिभिः सु-गृहीतस्य किङ्करैः ॥ २८ ॥

श्लोक 29

अस्थि-दृष्टे नरं पद्भ्यां अस्थि-नष्टे नरं पद्भ्यां अस्थि-लग्नं नरं पद्भ्यां अस्थि-स्थं न परं पद्भ्यां तथाप्य् अ-शक्ये वारङ्गं वक्री-कृत्य धनुर्-ज्यया ।
सु-बद्धं वक्त्र-कटके बध्नीयात् सु-समाहितः ॥ २९ ॥

श्लोक 30

सु-संयतस्य पञ्चाङ्ग्या वाजिनः कशयाथ तम् ।
ताडयेद् इति मूर्धानं वेगेनोन्नमयन् यथा ॥ ३० ॥

श्लोक 31

वेगेनोन्नमयेद् यथा उद्धरेच् छल्यम् एवं वा शाखायां कल्पयेत् तरोः ।
बद्ध्वा दुर्-बल-वारङ्गं कुशाभिः शल्यम् आहरेत् ॥ ३१ ॥

श्लोक 32

श्वयथु-ग्रस्त-वारङ्गं शोफम् उत्पीड्य युक्तितः ।
मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत् ॥ ३२ ॥

श्लोक 33

तैर् एव चानयेन् मार्गम् अ-मार्गोत्तुण्डितं तु यत् ।
मृदित्वा कर्णिनां कर्णं नाड्य्-आस्येन निगृह्य वा ॥ ३३ ॥

श्लोक 34

तेनैव वा नयेन् मार्गम् अ-मार्गोत्तुण्डितं च यत् अयस्-कान्तेन निष्-कर्णं विवृतास्यम् ऋजु-स्थितम् ।
पक्वाशय-गतं शल्यं विरेकेण विनिर्हरेत् ॥ ३४ ॥

श्लोक 35

दुष्ट-वात-विष-स्तन्य-रक्त-तोयादि चूषणैः ।
कण्ठ-स्रोतो-गते शल्ये सूत्रं कण्ठे प्रवेशयेत् ॥ ३५ ॥

श्लोक 36

बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत् ।
नाड्याग्नि-तापितां क्षिप्त्वा शलाकाम् अप्-स्थिरी-कृताम् ॥ ३६ ॥

श्लोक 37

जतु-दिग्धम् अ-जातुषम् आनयेज् जातुषं कण्ठाज् जतु-दिग्धाम् अ-जातुषम् ।
केशोन्दुकेन पीतेन द्रवैः कण्टकम् आक्षिपेत् ॥ ३७ ॥

श्लोक 38

जतु-दिग्धम् अ-जातुषम् केशाण्डकेन पीतेन केशाण्डुकेन पीतेन केशोण्डुकेन पीतेन सहसा सूत्र-बद्धेन वमतस् तेन चेतरत् ।
अ-शक्यं मुख-नासाभ्याम् आहर्तुं परतो नुदेत् ॥ ३८ ॥

श्लोक 39

अप्-पान-स्कन्ध-घाताभ्यां ग्रास-शल्यं प्रवेशयेत् ।
सूक्ष्माक्षि-व्रण-शल्यानि क्षौम-वाल-जलैर् हरेत् ॥ ३९ ॥

श्लोक 40

अपां पूर्णं विधुनुयाद् अवाक्-शिरसम् आयतम् ।
वामयेच् चा-मुखं भस्म-राशौ वा निखनेन् नरम् ॥ ४० ॥

श्लोक 41

वामयेद् आ-मुखं भस्म- वामयेद् वा-मुखं भस्म- वामयेद् वा सुखं भस्म- कर्णे ऽम्बु-पूर्णे हस्तेन मथित्वा तैल-वारिणी ।
क्षिपेद् अधो-मुखं कर्णं हन्याद् वाचूषयेत वा ॥ ४१ ॥

श्लोक 412

हन्याद् वाचूषयेत् तदा हन्याद् वाचूषयेत च कीटे स्रोतो-गते कर्णं पूरयेद् लवणाम्बुना ।
शुक्तेन वा सुखोष्णेन मृते क्लेद-हरो विधिः ॥ ४२ ॥

श्लोक 43

जातुषं हेम-रूप्यादि-धातु-जं च चिर-स्थितम् ।
ऊष्मणा प्राय-शः शल्यं देह-जेन विलीयते ॥ ४३ ॥

श्लोक 44

मृद्-वेणु-दारु-शृङ्गास्थि-दन्त-वालोपलानि न ।
विषाण-वेण्व्-अयस्-ताल-दारु-शल्यं चिराद् अपि ॥ ४४ ॥

श्लोक 45

दन्त-वालोपलादि न प्रायो निर्भुज्यते तद् धि पचत्य् आशु पलासृजी ।
शल्ये मांसावगाढे चेत् स देशो न विदह्यते ॥ ४५ ॥

श्लोक 46

शल्ये मांसावगाढे च ततस् तं मर्दन-स्वेद-शुद्धि-कर्षण-बृंहणैः ।
तीक्ष्णोपनाह-पानान्न-घन-शस्त्र-पदाङ्कनैः ॥ ४६ ॥

श्लोक 47

शुद्धि-कर्शन-बृंहणैः पाचयित्वा हरेच् छल्यं पाटनैषण-भेदनैः ।
शल्य-प्रदेश-यन्त्राणाम् अवेक्ष्य बहु-रूप-ताम् ॥ ४७ ॥

श्लोक 

तैस् तैर् उपायैर् मति-मान् शल्यं विद्यात् तथाहरेत् ॥ ४७ऊअब् ॥
̆ब्व् शल्यं विद्यात् ततो हरेत्