ज्वरचिकित्सितम् (continued)

श्लोक 71-72

कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||

चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||

श्लोक 73

विषमज्वर एवान्यश्चतुर्थकविपर्ययः|
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||

श्लोक 74

प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||

श्लोक 75-83

ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्|
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५||

गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ|
रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६||

रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः|
दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७||

अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता|
दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८||

स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः|
स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ||७९||

विरेकवमने चोभे सास्थिभेदं प्रकूजनम्|
विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे||८०||

हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्|
मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१||

शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च|
प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२||

रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः|
अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||

श्लोक 84-89

हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः|
समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम्||८४||

शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्|
कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः||८५||

स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः|
शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक्||८६||

शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्|
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः||८७||

मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः|
मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्||८८||

लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः|
इत्येते द्वन्द्वजाः प्रोक्ताः …|८९|

श्लोक 89-109

… सन्निपातज उच्यते||८९||

सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||

भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||

शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||

छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||

सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||

रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||

आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||

प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||

हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||

शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||

शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||

श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||

वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः|
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||

सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||

सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने |
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||

तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||

ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||

स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||

कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||

चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|

श्लोक 109-110

दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः||१०९||

सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्त्वतोऽन्यथा|११०|

श्लोक 110-111

निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः||११०||

संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्|१११|

श्लोक 111-114

आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः||१११||

अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः|
शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः||११२||

तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः|
तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन्||११३||

सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्|११४|

श्लोक 114-128

कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४||

सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||

भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||

विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||

चिकित्सया विषघ्न्यैव स शमं लभते नरः|
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||

सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||

चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||

स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा|
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||

यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||

शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||

मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||

पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||

कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||

ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||

ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|१२८|

श्लोक 128-129

ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||

हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|

श्लोक 129-132

संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः||१२९||

रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च|
स्वेन तेनोष्मण चैव कृत्वा देहोष्मणो बलम्||१३०||

स्रोतांसि रुद्ध्वा सम्प्राप्ताः केवलं देहमुल्बणाः|
सन्तापमधिकं देहे जनयन्ति नरस्तदा||१३१||

भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते|१३२|

श्लोक 132-133

स्रोतसां सन्निरुद्धत्वात् स्वेदं ना नाधिगच्छति||१३२||

स्वस्थानात् प्रच्युते चाग्नौ प्रायशस्तरुणेज्वरे|१३३|

श्लोक 133-137

अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च||१३३||

हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च|
ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम्||१३४||

लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम्|
स्तब्धसुप्तगुरुवं च गात्राणां बहुमूत्रता||१३५||

न विड् जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्|
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||१३६||

मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्|१३७|

श्लोक 137-138

क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्||१३७||

दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्|१३८|

श्लोक 138-139

नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्||१३८||

क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्|१३९|

श्लोक 139-140

ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्||१३९||

क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् |१४०|

श्लोक 140-142

लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले||१४०||

विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते |
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्||१४१||

बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः|१४२|

श्लोक 142-143

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||१४२||

पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे|१४३|

श्लोक 143-145

तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ||१४३||

मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्|
दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्||१४४||

स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्|१४५|

श्लोक 145-146

मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः||१४५||

शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये|१४६|

श्लोक 146-147

कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्||१४६||

बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्|१४७|

श्लोक 147-149

अनुपस्थितदोषाणां वमनं तरुणेज्वरे||१४७||

हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्|
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८||

दोषाः फलानामामानां स्वरसा इव सात्ययाः|१४९|

श्लोक 149-155

वमितं लङ्घितं काले यवागूभिरुपाचरेत्||१४९||

यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः|
यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः||१५०||

तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः|
ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः||१५१||

वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः|
स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये||१५२||

आहारभावात् प्राणाय सरत्वाल्लाघवाय च|
ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः||१५३||

ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्|
मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके||१५४||

ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे|१५५|

श्लोक 155-156

तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः||१५५||

ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्|१५६|

श्लोक 156-160

ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्||१५६||

तनुना मुद्गयूषेण जाङ्गलानां रसेन वा|
अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७||

योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्|
तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८||

धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्|
विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९||

मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|

श्लोक 160-161

पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०||

ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|

श्लोक 161-163

स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्||१६१||

दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे|
न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||१६२||

यः कषायकषायः स्यात् स वर्ज्यस्तरुणज्वरे|१६३|

श्लोक 163-164

यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः||१६३||

दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये|१६४|

श्लोक 164-165

अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे||१६४||

परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्|१६५|

श्लोक 165-167

निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्||१६५||

न सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत् |
यावल्लघुत्वादशनं दद्यान्मांसरसेन च||१६६||

बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च तत् |१६७|

श्लोक 167-168

दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्||१६७||

बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्|१६८|

श्लोक 168-169

क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः||१६८||

अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः|१६९|

श्लोक 169-171

ज्वरक्षीणस्य न हितं वमनं न विरेचनम्||१६९||

कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्|
निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम्||१७०||

परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्|१७१|

श्लोक 171-172

पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्||१७१||

स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्|१७२|

श्लोक 172-173

ज्वरे पुराणे सङ्क्षीणे कफपित्ते दृढाग्नये||१७२||

रूक्षबद्धपुरीषाय प्रदद्यादनुवासनम्|१७३|

श्लोक 173-174

गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च||१७३||

जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्|१७४|

श्लोक 174-176

अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने||१७४||

विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्|
तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः||१७५||

लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते|१७६|

श्लोक 176-177

धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम्||१७६||

त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः|१७७|

श्लोक 177-179

इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७||

येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु|
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८||

यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|

श्लोक 179-188

लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९||

पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः|
अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०||

सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्|
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१||

श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्|
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२||

पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः|
शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३||

कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्|
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४||

सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्|
कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५||

मृद्वीकापिप्पलीमूलचव्यामलकनागरैः|
पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६||

बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्|
अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७||

नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|

श्लोक 188-189

मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान्||१८८||

यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्|१८९|

श्लोक 189-190

पटोलपत्रं सफलं कुलकं पापचेलिकम्||१८९||

कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्|१९०|

श्लोक 190-194

लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान्||१९०||

कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्|
प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्||१९१||

ईषदम्लाननम्लान् वा रसान् काले विचक्षणः|
कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्||१९२||

गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः|
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्||१९३||

भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्|१९४|

श्लोक 194-195

घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्||१९४||

मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्|१९५|