श्लोक 71-72
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः|
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः||७१||
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः|
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||७२||
श्लोक 73
विषमज्वर एवान्यश्चतुर्थकविपर्ययः|
त्रिविधो धातुरेकैको द्विधातुस्थः करोति यम्||७३||
श्लोक 74
प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः|
सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||७४||
श्लोक 75-83
ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्|
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५||
गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ|
रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६||
रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः|
दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७||
अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता|
दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८||
स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः|
स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ||७९||
विरेकवमने चोभे सास्थिभेदं प्रकूजनम्|
विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे||८०||
हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्|
मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१||
शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च|
प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२||
रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः|
अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||
श्लोक 84-89
हेतुभिर्लक्षणैश्चोक्तः पूर्वमष्टविधो ज्वरः|
समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम्||८४||
शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्षणम्|
कण्ठास्यशोषो वमथुस्तृष्णा मूर्च्छा भ्रमोऽरुचिः||८५||
स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः|
शीतको गौरवं तन्द्रा स्तैमित्यं पर्वणां च रुक्||८६||
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्|
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः||८७||
मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः|
मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्तनम्||८८||
लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः|
इत्येते द्वन्द्वजाः प्रोक्ताः …|८९|
श्लोक 89-109
… सन्निपातज उच्यते||८९||
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||
वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः|
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने |
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|
श्लोक 109-110
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः||१०९||
सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्त्वतोऽन्यथा|११०|
श्लोक 110-111
निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः||११०||
संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम्|१११|
श्लोक 111-114
आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः||१११||
अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः|
शस्त्रलोष्टकशाकाष्ठमुष्ट्यरत्नितलद्विजैः||११२||
तद्विधैश्च हते गात्रे ज्वरः स्यादभिघातजः|
तत्राभिघातजे वायुः प्रायो रक्तं प्रदूषयन्||११३||
सव्यथाशोफवैवर्ण्यं करोति सरुजं ज्वरम्|११४|
श्लोक 114-128
कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४||
सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||
चिकित्सया विषघ्न्यैव स शमं लभते नरः|
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||
चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते प्रशमेन वा|
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||
शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||
पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|१२८|
श्लोक 128-129
ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|
श्लोक 129-132
संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः||१२९||
रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च|
स्वेन तेनोष्मण चैव कृत्वा देहोष्मणो बलम्||१३०||
स्रोतांसि रुद्ध्वा सम्प्राप्ताः केवलं देहमुल्बणाः|
सन्तापमधिकं देहे जनयन्ति नरस्तदा||१३१||
भवत्यत्युष्णसर्वाङ्गो ज्वरितस्तेन चोच्यते|१३२|
श्लोक 132-133
स्रोतसां सन्निरुद्धत्वात् स्वेदं ना नाधिगच्छति||१३२||
स्वस्थानात् प्रच्युते चाग्नौ प्रायशस्तरुणेज्वरे|१३३|
श्लोक 133-137
अरुचिश्चाविपाकश्च गुरुत्वमुदरस्य च||१३३||
हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च|
ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्तनम्||१३४||
लालाप्रसेको हृल्लासः क्षुन्नाशो विरसं मुखम्|
स्तब्धसुप्तगुरुवं च गात्राणां बहुमूत्रता||१३५||
न विड् जीर्णा न च ग्लानिर्ज्वरस्यामस्य लक्षणम्|
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः||१३६||
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्|१३७|
श्लोक 137-138
क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्||१३७||
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम्|१३८|
श्लोक 138-139
नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम्||१३८||
क्रोधप्रवातव्यायामान् कषायांश्च विवर्जयेत्|१३९|
श्लोक 139-140
ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात्||१३९||
क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् |१४०|
श्लोक 140-142
लङ्घनेन क्षयं नीते दोषे सन्धुक्षितेऽनले||१४०||
विज्वरत्वं लघुत्वं च क्षुच्चैवास्योपजायते |
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत्||१४१||
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः|१४२|
श्लोक 142-143
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||१४२||
पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे|१४३|
श्लोक 143-145
तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ||१४३||
मद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम्|
दीपनं पाचनं चैव ज्वरघ्नमुभयं हि तत्||१४४||
स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम्|१४५|
श्लोक 145-146
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः||१४५||
शृतशीतं जलं दद्यात् पिपासाज्वरशान्तये|१४६|
श्लोक 146-147
कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्||१४६||
बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्|१४७|
श्लोक 147-149
अनुपस्थितदोषाणां वमनं तरुणेज्वरे||१४७||
हृद्रोगं श्वासमानाहं मोहं च जनयेद्भृशम्|
सर्वदेहानुगाः सामा धातुस्था असुनिर्हराः ||१४८||
दोषाः फलानामामानां स्वरसा इव सात्ययाः|१४९|
श्लोक 149-155
वमितं लङ्घितं काले यवागूभिरुपाचरेत्||१४९||
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः|
यावज्ज्वरमृदूभावात् षडहं वा विचक्षणः||१५०||
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः|
ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः||१५१||
वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः|
स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये||१५२||
आहारभावात् प्राणाय सरत्वाल्लाघवाय च|
ज्वरघ्न्यो ज्वरसात्म्यत्वात्तस्मात् पेयाभिरादितः||१५३||
ज्वरानुपचरेद्धीमानृते मद्यसमुत्थितात्|
मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके||१५४||
ऊर्ध्वगे रक्तपित्ते च यवागूर्न हिता ज्वरे|१५५|
श्लोक 155-156
तत्र तर्पणमेवाग्रे प्रयोज्यं लाजसक्तुभिः||१५५||
ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्|१५६|
श्लोक 156-160
ततः सात्म्यबलापेक्षी भोजयेज्जीर्णतर्पणम्||१५६||
तनुना मुद्गयूषेण जाङ्गलानां रसेन वा|
अन्नकालेषु चाप्यस्मै विधेयं दन्तधावनम्||१५७||
योऽस्य वक्त्ररसस्तस्माद्विपरीतं प्रियं च यत्|
तदस्य मुखवैशद्यं प्रकाङ्क्षां चान्नपानयोः||१५८||
धत्ते रसविशेषाणामभिज्ञत्वं करोति यत्|
विशोध्य द्रुमशाखाग्रैरास्यं प्रक्षाल्य चासकृत्||१५९||
मस्त्विक्षुरसमद्याद्यैर्यथाहारमवाप्नुयात्|१६०|
श्लोक 160-161
पाचनं शमनीयं वा कषायं पाययेद्भिषक्||१६०||
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्|१६१|
श्लोक 161-163
स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम्||१६१||
दोषा बद्धाः कषायेण स्तम्भित्वात्तरुणे ज्वरे|
न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||१६२||
यः कषायकषायः स्यात् स वर्ज्यस्तरुणज्वरे|१६३|
श्लोक 163-164
यूषैरम्लैरनम्लैर्वा जाङ्गलैर्वा रसैर्हितैः||१६३||
दशाहं यावदश्नीयाल्लघ्वन्नं ज्वरशान्तये|१६४|
श्लोक 164-165
अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे||१६४||
परिपक्वेषु दोषेषु सर्पिष्पानं यथाऽमृतम्|१६५|
श्लोक 165-167
निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम्||१६५||
न सर्पिः पाययेद्वैद्यः कषायैस्तमुपाचरेत् |
यावल्लघुत्वादशनं दद्यान्मांसरसेन च||१६६||
बलं ह्यलं निग्रहाय दोषाणां, बलकृच्च तत् |१६७|
श्लोक 167-168
दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम्||१६७||
बद्धप्रच्युतदोषं वा निरामं पयसा जयेत्|१६८|
श्लोक 168-169
क्रियाभिराभिः प्रशमं न प्रयाति यदा ज्वरः||१६८||
अक्षीणबलमांसाग्नेः शमयेत्तं विरेचनैः|१६९|
श्लोक 169-171
ज्वरक्षीणस्य न हितं वमनं न विरेचनम्||१६९||
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्|
निरूहो बलमग्निं च विज्वरत्वं मुदं रुचिम्||१७०||
परिपक्वेषु दोषेषु प्रयुक्तः शीघ्रमावहेत्|१७१|
श्लोक 171-172
पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्||१७१||
स्रंसनं त्रीन्मलान् बस्तिर्हरेत् पक्वाशयस्थितान्|१७२|
श्लोक 172-173
ज्वरे पुराणे सङ्क्षीणे कफपित्ते दृढाग्नये||१७२||
रूक्षबद्धपुरीषाय प्रदद्यादनुवासनम्|१७३|
श्लोक 173-174
गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च||१७३||
जीर्णज्वरे रुचिकरं कुर्यान्मूर्धविरेचनम्|१७४|
श्लोक 174-176
अभ्यङ्गांश्च प्रदेहांश्च परिषेकावगाहने||१७४||
विभज्य शीतोष्णकृतं कुर्याज्जीर्णे ज्वरे भिषक्|
तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः||१७५||
लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते|१७६|
श्लोक 176-177
धूपनाञ्जनयोगैश्च यान्ति जीर्णज्वराः शमम्||१७६||
त्वङ्मात्रशेषा येषां च भवत्यागन्तुरन्वयः|१७७|
श्लोक 177-179
इति क्रियाक्रमः सिद्धो ज्वरघ्नः सम्प्रकाशितः||१७७||
येषां त्वेष क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु|
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह||१७८||
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः|१७९|
श्लोक 179-188
लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९||
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः|
अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०||
सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्|
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१||
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्|
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२||
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः|
शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३||
कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्|
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४||
सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्|
कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५||
मृद्वीकापिप्पलीमूलचव्यामलकनागरैः|
पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६||
बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्|
अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७||
नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|
श्लोक 188-189
मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्टकान्||१८८||
यूषार्थे यूषसात्म्यानां ज्वरितानां प्रदापयेत्|१८९|
श्लोक 189-190
पटोलपत्रं सफलं कुलकं पापचेलिकम्||१८९||
कर्कोटकं कठिल्लं च विद्याच्छाकं ज्वरे हितम्|१९०|
श्लोक 190-194
लावान् कपिञ्जलानेणांश्चकोरानुपचक्रकान्||१९०||
कुरङ्गान् कालपुच्छांश्च हरिणान् पृषताञ्छशान्|
प्रदद्यान्मांससात्म्याय ज्वरिताय ज्वरापहान्||१९१||
ईषदम्लाननम्लान् वा रसान् काले विचक्षणः|
कुक्कुटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान्||१९२||
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः|
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत्||१९३||
भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित्|१९४|
श्लोक 194-195
घर्माम्बु चानुपानार्थं तृषिताय प्रदापयेत्||१९४||
मद्यं वा मद्यसात्म्याय यथादोषं यथाबलम्|१९५|