गण्डूषादि विधि अध्याय

श्लोक 1

चतुः-प्रकारो गण्डूषः स्निग्धः शमन-शोधनौ ।
रोपणश् च त्रयस् तत्र त्रिषु योज्याश् चलादिषु ॥ १ ॥

श्लोक 2

अन्त्यो व्रण-घ्नः स्निग्धो ऽत्र स्वाद्व्-अम्ल-पटु-साधितैः ।
स्नेहैः संशमनस् तिक्त-कषाय-मधुरौषधैः ॥ २ ॥

श्लोक 3

शोधनस् तिक्त-कट्व्-अम्ल-पटूष्णै रोपणः पुनः ।
कषाय-तिक्तकैस् तत्र स्नेहः क्षीरं मधूदकम् ॥ ३ ॥

श्लोक 4

शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथा-यथम् ।
कल्कैर् युक्तं विपक्वं वा यथा-स्पर्शं प्रयोजयेत् ॥ ४ ॥

श्लोक 5

दन्त-हर्षे दन्त-चाले मुख-रोगे च वातिके ।
सुखोष्णम् अथ-वा शीतं तिल-कल्कोदकं हितम् ॥ ५ ॥

श्लोक 6

गण्डूष-धारणे नित्यं तैलं मांस-रसो ऽथ-वा ।
ऊषा-दाहान्विते पाके क्षते चागन्तु-संभवे ॥ ६ ॥

श्लोक 7

क्षते वागन्तु-संभवे विषे क्षाराग्नि-दग्धे च सर्पिर् धार्यं पयो ऽथ-वा ।
वैशद्यं जनयत्य् आशु संदधाति मुखे व्रणान् ॥ ७ ॥

श्लोक 8

विष-क्षाराग्नि-दग्धे च वैशद्यं जनयत्य् आस्ये संदधाति मुख-व्रणान् दाह-तृष्णा-प्रशमनं मधु-गण्डूष-धारणम् ।
धान्याम्लम् आस्य-वैरस्य-मल-दौर्गन्ध्य-नाशनम् ॥ ८ ॥

श्लोक 9

तद् एवा-लवणं शीतं मुख-शोष-हरं परम् ।
आशु क्षाराम्बु-गण्डूषो भिनत्ति श्लेष्मणश् चयम् ॥ ९ ॥

श्लोक 10

सुखोष्णोदक-गण्डूषैर् जायते वक्त्र-लाघवम् ।
निवाते सातपे स्विन्न-मृदित-स्कन्ध-कन्धरः ॥ १० ॥

श्लोक 11

गण्डूषम् अ-पिबन् किञ्-चिद्-उन्नतास्यो विधारयेत् ।
कफ-पूर्णास्य-ता यावत् स्रवद्-घ्राणाक्ष-ताथ-वा ॥ ११ ॥
अ-संचार्यो मुखे पूर्णे गण्डूषः कवडो ऽन्य-था ॥ ११ऊअब् ॥

श्लोक 12

अव् अ-संचार्यो मुखे ऽ-पूर्णे मन्या-शिरः-कर्ण-मुखाक्षि-रोगाः प्रसेक-कण्ठामय-वक्त्र-शोषाः ।
हृल्-लास-तन्द्रा-रुचि-पीनसाश् च साध्या विशेषात् कवड-ग्रहेण ॥ १२ ॥

श्लोक 13

कल्को रस-क्रिया चूर्णस् त्रि-विधं प्रतिसारणम् ॥ १३अब् ॥

श्लोक 14

कल्को रस-क्रिया चूर्णं युञ्ज्यात् तत् कफ-रोगेषु गण्डूष-विहितौषधैः ।
मुखालेपस् त्रि-धा दोष-विष-हा वर्ण-कृच् च सः ॥ १४ ॥

श्लोक 

मुख-लेपस् त्रि-धा दोष- व्याधेर् अपचयः पुष्टिर् वैशद्यं वक्त्र-लाघवम् ।
इन्द्रियाणां प्रसादश् च कवडे शुद्धि-लक्षणम् ॥ १४.१+१ ॥

श्लोक 

हीनाज् जाड्य-कफोत्क्लेशाव् अ-रस-ज्ञानम् एव च ।
अति-योगान् मुखे पाकः शोष-तृष्णा-रुचि-क्लमः ॥ १४.१+२ ॥

श्लोक 15

हीनाद् ध्मान-कफोत्लेशाव् उष्णो वात-कफे शस्तः शेषेष्व् अत्य्-अर्थ-शीतलः ।
त्रि-प्रमाणश् चतुर्-भाग-त्रि-भागार्धाङ्गुलोन्नतिः ॥ १५ ॥

श्लोक 16

अ-शुष्कस्य स्थितिस् तस्य शुष्को दूषयति च्छविम् ।
तम् आर्द्रयित्वापनयेत् तद्-अन्ते ऽभ्यङ्गम् आचरेत् ॥ १६ ॥

श्लोक 17

विवर्जयेद् दिवा-स्वप्न-भाष्याग्न्य्-आतप-शुक्-क्रुधः ।
न योज्यः पीनसे ऽ-जीर्णे दत्त-नस्ये हनु-ग्रहे ॥ १७ ॥

श्लोक 18

दत्ते नस्ये हनु-ग्रहे अ-रोचके जागरिते स तु हन्ति सु-योजितः ।
अ-काल-पलित-व्यङ्ग-वली-तिमिर-नीलिकाः ॥ १८ ॥

श्लोक 19

स च हन्ति सु-योजितः कोल-मज्जा वृषान् मूलं शाबरं गौर-सर्षपाः ।
सिंही-मूलं तिलाः कृष्णा दार्वी-त्वङ् निस्-तुषा यवाः ॥ १९ ॥

श्लोक 20

दर्भ-मूल-हिमोशीर-शिरीष-मिशि-तण्डुलाः ।
कुमुदोत्पल-कल्हार-दूर्वा-मधुक-चन्दनम् ॥ २० ॥

श्लोक 21

कालीयक-तिलोशीर-मांसी-तगर-पद्मकम् ।
तालीश-गुन्द्रा-पुण्ड्राह्व-यष्टी-काश-नतागुरु ॥ २१ ॥

श्लोक 22

इत्य् अर्धार्धोदिता लेपा हेमन्तादिषु षट् स्मृताः ।
-मुखालेपन-शीलानां दृढं भवति दर्शनम् ॥ २२ ॥

श्लोक 23

वदनं चा-परिम्लानं श्लक्ष्णं तामरसोपमम् ।
अभ्यङ्ग-सेक-पिचवो वस्तिश् चेति चतुर्-विधम् ॥ २३ ॥

श्लोक 24

मूर्ध-तैलं बहु-गुणं तद् विद्याद् उत्तरोत्तरम् ।
तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्य-कण्डू-मलादिषु ॥ २४ ॥

श्लोक 25

रूक्ष-कण्डू-मलादिषु अरूंषिका-शिरस्-तोद-दाह-पाक-व्रणेषु तु ।
परिषेकः पिचुः केश-शात-स्फुटन-धूपने ॥ २५ ॥

श्लोक 26

दाह-पाक-व्रणेषु च नेत्र-स्तम्भे च वस्तिस् तु प्रसुप्त्य्-अर्दित-जागरे ।
नासास्य-शोषे तिमिरे शिरो-रोगे च दारुणे ॥ २६ ॥

श्लोक 27

विधिस् तस्य निषण्णस्य पीठे जानु-समे मृदौ ।
शुद्धाक्त-स्विन्न-देहस्य दिनान्ते गव्य-माहिषम् ॥ २७ ॥

श्लोक 28

द्वा-दशाङ्गुल-विस्तीर्णं चर्म-पट्टं शिरः-समम् ।
आ-कर्ण-बन्धन-स्थानं ललाटे वस्त्र-वेष्टिते ॥ २८ ॥

श्लोक 29

चैल-वेणिकया बद्ध्वा माष-कल्केन लेपयेत् ।
ततो यथा-व्याधि शृतं स्नेहं कोष्णं निषेचयेत् ॥ २९ ॥

श्लोक 30

ऊर्ध्वं केश-भुवो यावद् अङ्गुलं धारयेच् च तम् ।
आ-वक्त्र-नासिकोत्क्लेदाद् दशाष्टौ षट् चलादिषु ॥ ३० ॥

श्लोक 31

आ-वक्त्र-नासिका-क्लेदाद् मात्रा-सहस्राण्य् अ-रुजे त्व् एकं स्कन्धादि मर्दयेत् ।
मुक्त-स्नेहस्य परमं सप्ताहं तस्य सेवनम् ॥ ३१ ॥

श्लोक 32

सप्ताहं तस्य सेचनम् धारयेत् पूरणं कर्णे कर्ण-मूलं विमर्दयन् ।
रुजः स्यान् मार्दवं यावन् मात्रा-शतम् अ-वेदने ॥ ३२ ॥

श्लोक 33

कर्ण-मूलं विमर्दयेत् यावत् पर्येति हस्ताग्रं दक्षिणं जानु-मण्डलम् ।
निमेषोन्मेष-कालेन समं मात्रा तु सा स्मृता ॥ ३३ ॥

श्लोक 34

निमेषोन्मेष-मात्रेण कच-सदन-सित-त्व-पिञ्जर-त्वं परिफुटनं शिरसः समीर-रोगान् ।
जयति जनयतीन्द्रिय-प्रसादं स्वर-हनु-मूर्ध-बलं च मूर्ध-तैलम् ॥ ३४ ॥
कच-शदन-सित-त्व-पिञ्जर-त्वं कच-शदन-सित-त्व-पिञ्जर-त्व- कच-सदन-सित-त्व-पिञ्जर-त्व-